________________
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
सु-यजोनिप् ।५।१।१७२॥ आभ्यां भूतार्थाभ्यां 'ध्वनिप्' स्यात् । सुत्वानौ, यज्वा ॥१७२।।
जूषोऽतः 14191१७३॥ षेभूतार्थाद् ‘अतृः' स्यात् । जरती ॥१७३॥
क्त क्तवतू 1५1१1१७४॥ भूतार्थाद् धातोरेतौ स्याताम् । कृतः, कृतवान् ।।१७४॥ इत्याचार्यत्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपनशब्दानुशासन
लघुवृत्तो पचमस्याप्यायस्य प्रथमः पादः समाप्तः ॥५॥ अगणितपमेषु बलः पुरुषोत्तमचित्तविस्मयं जनपन् । रामोल्लासनमूर्तिः श्रीकर्णः कर्ण इब जयति ॥१७॥
[द्वितीयः पादः]
श्रु-सद-वस्भ्यः परोक्षा वा [५।२।१॥ एभ्यो भूतार्थेभ्यः 'परोक्षा वा' स्यात् । उपशुश्राव, उपससाद, अनूवास, पक्षे- उपाश्रौषीत्, उपाशृणोत्, उपासदत, उपासीदत, अन्ववात्सीत्, अन्ववसत् ॥१॥
तत्र क्वसु-कानौ तद्वत् ।५।२।२॥ परोक्षामात्रविषये धातोः परौ 'क्वसु-कानौ स्याताम्, तौ च परोक्षेव' । शुश्रुवान्, सेदिवान्, ऊषिवान्, पेचिवान्, पेचानः ॥२॥
वेयिवदनाश्वदनूचानम् ।५।२॥३॥ एते 'भूतेऽर्थे क्वसुकानान्ताः कर्तरि वा' निपात्यन्ते । समीयिवान, अनाश्वान, अनूचानः, पक्षे- अगात, उपैत, उपेयाय, नाशीत, नाश्नात्, नाश, अन्ववोचत्,