________________
२४८
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् कृप्रत्ययः प्रकृत्यादेः समुदायस्य गतिकारकपूर्वस्य, केवलस्य च विशेषणं स्यात् । यह समासो- भस्मनिहुतं, तथा- उदकेविशीर्णम्, अवतप्तेनकुलस्थितम् ॥११७॥
परः ७४११८॥ प्रत्ययः प्रकृतेः पर एव स्यात् । अजा, वृक्षः, जुगुप्सते ॥११८॥
स्पढे ७।४।११९॥ द्वयोर्विध्योरन्यत्र सावकाशयोस्तुल्यबलयोरेकत्रानेकत्र चोपनिपातः स्पर्द्धः, तत्र 'यः सूत्रपाठे परः स विधिः' स्यात् । वनानि, अत्र “शसोऽता सश्च नः पुंसि" [१,४,४९] इत्यतो "नपुंसकस्य शिः" [१, ४, ५५] इत्येव स्यात् ॥११९॥
आसनः ७४१२०॥ ययास्वं स्थाना-ऽर्थ-प्रमाणादिभिरासन एव विधिः स्यात् । दण्डानम्, अत्र कण्ठ्ययोरतोः कण्ठ्य एव आ दीर्घः । वातण्ड्ययुवतिः, वतण्ड्याः , पुंवदावोऽर्थत आसत्रः, वातण्ड्यः ; अमुष्मै, “मावुवर्णोऽनु" [२, १, ४७) इति मात्रिकस्य मात्रिकः ॥१२०॥ |
सम्बन्धिनां सम्बन्ये ७४१२१॥ सम्बन्धिशब्दानां यत् कार्यमुक्तं तत् सम्बन्ध एव सति स्यात् । श्वशुर्यः, संज्ञायास्तु इजेव- श्वाशुरिः ॥१२१।।
समर्थः पदविधिः ७४१२२॥ समर्थपदाश्रयत्वात् समर्थः, पदसम्बन्धी विधिः पदविधिः, सर्वपदविधिः समर्थो ज्ञेयः, सामर्थ्य च व्यपेक्षा एकार्थीभावश्च । पदविधिस्तु समासनामधातु-कृत्तद्धितोपपदविभक्ति-युष्मदस्मदादेश-प्लुतरूपः । धर्मश्रितः, पुत्रीयति, कुम्भकारः, औपगवः, नमो देवेभ्यः, धर्मस्ते स्वम्, धर्मो मे स्वम्, आग ! कूज३ इदानीं