SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पञ्चम्या निर्दिष्टे परस्य | ७|४|१०४ || पञ्चम्या निर्दिष्टे यत् कार्यमुक्तं तत् परस्याऽव्यवधेः स्यात् । अतो "भिस ऐस्” [१, ४, २] वृक्षैः, इह मा भूत् - मालाभिरत्र, दृषद्भिः ||१०४|| सप्तम्या पूर्वस्य | ७|४|१०५॥ सप्तम्या निर्दिष्टे यत् कार्यमुक्तं तत् पूर्वस्याऽव्यवधेः स्यात् । दध्यत्र, इह मा भूत् - समित्र ॥ १०५ ॥ २४६ षष्ठ्याऽन्त्यस्य |७|४|१०६ ॥ षष्ट्या निर्दिष्टे यदुक्तं तत् षष्ट्युक्तस्य योऽन्त्यस्तस्य स्यात् । अष्टाभिः ॥१०६ ॥ अनेकवर्णः सर्वस्य |७|४|१०७ ॥ अयं विधिः षष्ट्योक्तस्य सर्वस्यैव स्यात् । तिसृभिः || १०७ || प्रत्ययस्य | ७|४|१०८॥ प्रत्ययस्थानिनो विधिः सर्वस्य स्यात् । सर्वे ॥ १०८॥ स्थानीवाऽवर्णविधी | ७|४|१०९॥ आदेश आदेशीव' स्यात् न चेत् स्थानिवर्णाश्रयं कार्यम् । भव्यम्, कस्मै, राजा, प्रकृत्य, प्रस्तुत्य, धर्मो वो रक्षतु । अवर्णविधाविति किम् ? द्यौः, क इष्टः प्रदीव्य ॥१०९ ॥ स्वरस्य परे प्राग्विधौ |७|४|११०॥ स्वरस्यादेशः परनिमित्तकः पूर्वविधौ विधेये 'स्थानीव' स्यात् । कथयति, पादिकः, स्रंस्यते । पर इति किम् ? द्विपदिकां दत्ते । प्राग्विधाविति किम् ? नैधेयः ॥११०॥ न सन्धि-डी-य-क्वि-द्वि-दीर्घा ऽसद्विधावस्क्लुकि । ७|४|१११ ॥ सन्धिविधी. डीविधी यविधौ क्विविधी द्वित्वविधौ दीर्घविधी "संयोगस्यादी
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy