________________
२४५
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् रन्त्यस्वरः ‘प्लुतो वा' स्यात् । हे३ मैत्र ! आगच्छ, आगच्छ हे३ मैत्र!, आगच्छ मैत्र हे३ !; है३ मैत्राऽऽगच्छ, आगच्छ है३ मैत्र !, आगच्छ मैत्र है३ ! ॥१०॥ __ अस्त्री-शूद्रे प्रत्यभिवादे भो-गोत्र-नाम्नो वा ७।४।१०१॥ यदभिवादितो गुरुः कुशलानुयोगादिमद्वाक्यं प्रयुड़े, तबाऽत्रीशूद्रविषये वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यस्वरो मोसो गोत्रस्य नाम्नो वाऽऽमन्त्र्यस्यांशः 'प्लुतो वा' स्यात् । अभिवादये मैत्रोऽहं भोः !, आयुष्मानेधि भोः३ ! भो ! वा; अभिवादये गार्योऽहं भोः !, कुशल्यसि गार्य३ !, गाये ! वा; अभिवादये मैत्रोऽहं भोः, आयुष्मानेधि मैत्र३ !, मैत्र ! वा । श्री-शूद्रवर्जनं किम् ? अभिवादये गार्म्यहं भोः !, आयुष्मती त्वं भव गार्गि !; अभिवादये तुषजकोऽहं भोः !, कुशल्यसि तुषजक ! ॥१०१॥ प्रश्ना-ऽर्चा-विचारे च सन्धेयसन्ध्यक्षरस्याऽऽदिदुत्परः
७।४।१०२॥ एषु प्रत्यभिवादे च वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरः सन्धियोग्यसन्ध्यक्षरान्तस्य ‘प्लुतो भवन् इदुत्पर -आत्' स्यात् । अगमः३ पूर्वान् ग्रामाइन् अग्निभूता३६ !, पटा३उ !?; अर्चा शोभनः खल्वसि अग्निभूताइइ !, पटाइउ!, विचारे- वस्तव्यं किं निर्ग्रन्यस्य सागारिका३ इ, उताऽनागारिके ?; प्रत्यभिवादे-आयुष्मानेधि अग्निभूताइ ! । सन्धेयेति किम् ? कमिश्न कुशलम् भवत्योः३ कन्ये३ ? ॥१०२॥
तयोर्वी स्वरे संहितायाम् ७४।१०३॥ तयोः- प्लुताऽऽकारात् परयोरिदुतोः स्वो परे संहिताविषये यथासंख्यं 'वी' स्याताम् । अगमः३ अग्निभूताश्यत्रागच्छ, अगमः३ पटाइवत्रागच्छ । संहितायामिति किम् ? अग्ना३६ इन्द्रम् । पटाइउ उदकाम् ॥१०३॥