________________
२४४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ते ददामि३, ददामि वा । अद्य श्राद्धमित्यात्य३, आत्थ वा ॥९४।।
विचारे पूर्वस्य ।७।४।९५॥ विचार:- संशयः, तद्विषये संशय्यमानस्य यत् पूर्व तस्य स्वरेष्वन्त्यः स्वरः 'प्लुतो वा' स्यात् । अहिर्नु३ अहिर्नु वा रज्जुर्नु ॥९५॥
ओमः प्रारम्भे ७।४।९६॥ ओमः प्रणामाद्यभ्यादानार्थस्य स्वरेष्वन्त्यः स्वरः 'प्लुतो वा' स्यात् । ओ३म्, ओम् वा, ऋषभमृषभगामिनं प्रणमत ॥९६॥
हेः प्रश्नाख्याने ७।४।९७॥ पृष्टप्रतिवचनार्थ वाक्यस्य हे: स्वरेष्वन्त्यः स्वरः ‘प्लुतो वा' स्यात् । अकार्षीः कटं मैत्र ? अकार्ष हि३, अकार्ष हि वा ॥९७॥
प्रश्ने च प्रतिपदम् ७४।९८॥ प्रश्नार्थस्य प्रश्नाख्यानार्थस्य च वाक्यस्य यत् पदं तस्य स्वरेष्वन्त्यः स्वरः 'प्लुतो वा' स्यात् । अगमः३ पूर्वाश्न् ग्रामाइन् मैत्र?, अगमः पूर्वान् ग्रामान् मैत्र ?; अगम३म् पूर्वान् ग्रामाइन् मैत्र३ !, अगमं पूर्वान् ग्रामान् मैत्र ! ||९८॥
दूरादामन्त्र्यस्य गुरुवैकोऽनन्त्योऽपि लनृत् ७४९९॥ वाक्यस्य यः स्वरेष्वन्त्यस्वरो दूरादामन्त्र्यार्थपदस्थो गुरुर्वाऽनन्त्योऽपि ऋद्धर्जस्वरलकारश्चैकोऽसौ 'प्लुतो वा' स्यात् । आगच्छ भो देवदत्त३ !, देवदत्त ! वा; सक्तून् पिब देवदत्त !, देवदत्त, देवदत्त वा; आगच्छ भो क्लप्तशिख, क्लप्तशिख वा । अनृदिति किम् ? कृष्णमित्र !, कृष्णमित्र ! ॥१९॥
हे-हैष्वेषामेव ।७।४।१०॥ दूरादामन्त्र्यस्य यौ हे- हैशब्दी तयोः प्रयुक्तयोरेव वाक्ये यत्र तत्रस्थयो