________________
२४२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
द्वन्द्वं वा ७४१८२॥ वीप्सायां युक्तस्य देरादेः स्यादेः 'पिल्लुप्' स्यात्, 'एश्चाऽम्', उत्तर-'तोऽत्वं' स्यादेश्वा-'ऽम् वा' निपात्यः । द्वन्द्वं, द्वौ द्वौ वा तिष्ठतः ॥८२॥
रहस्य-मर्यादोक्ति-व्युत्क्रान्ति-यज्ञपात्रप्रयोगे ७।४।८३॥ एषु गम्येषु 'द्वेर्विचनं शेषं च पूर्ववन्निपात्यम्' । द्वन्द्व मन्त्रयन्ते, पशवो द्वन्द्वं मिथुनायन्ते, द्वन्द्वं व्युत्क्रान्ताः, द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ।।८३॥
लोकज्ञातेऽत्यन्तसाहचर्ये ७४१८४॥ अत्र घोत्ये द्वेः पूर्ववत् 'द्वन्दु-' मिति निपात्यम् । द्वन्द्वं रामलक्ष्मणौ ॥४॥
आबाधे ७४१८५॥ मनःपीडाविषये शब्दो 'द्विः' स्यात्, आदौ स्यादेश्च पिल्लुम्' । ऋक् ऋक् ॥८५||
नवा गुणः सदृशे रित् ।७।४।८६॥ गुणशब्दो मुख्यसदृशे गुणे गुणिनि वा वर्तमानो 'द्विर्या' स्यात्, आदौ स्यादेः 'पिल्लुप्' च, सा च 'रित्' । शुकशुक् रूपम्, कालककालिका; पक्षे शुकुजातीयः ॥८६॥
प्रिय-सुखं चाकृच्छ्रे ७४४८७॥ एतावकेशार्थी 'वा द्विः' स्याताम्, आदी स्यादेः 'पिल्लुप्' च । प्रियप्रियेण, प्रियेण वा दत्ते; सुखसुखेन, सुखेन वाऽधीते ॥८७॥
वाक्यस्य परिर्वजने ७४८८॥ वर्जनार्थो वाक्यांशः परिव दिः' स्यात् । परि परि, परि वा त्रिगर्तेभ्यो वृटो मेघः । वाक्यस्येति किम् ? परित्रिगत वृधे मेघः ॥८॥ सम्मत्यसया कोप-कुत्सनेष्वायामव्यमादौ स्वरेष्वन्त्यश्च
प्लुतः ७४१८९॥