SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २४० श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अवर्णवर्णस्य |७|४|६८॥ एतदन्तस्यापदस्य तद्धिते 'लुक्' स्यात् । दाक्षिः, चौडिः, नाभेयः, दौलेयः । अपदस्येति किम् ? ऊर्णायुः ||६८ || अकद्रू - पाण्ड्वोरुवर्णस्यैये |७|४|६९॥ एतद्वजवर्णान्तस्य एये तद्धिते 'लुक्' स्यात् । जाम्बेयः । कद्र्वादिवर्जनं किम ? काद्रवेयः पाण्डवेयः ||६९|| अस्वयम्भुवोऽव् |७|४|७०|| स्वयंभूवर्जोवर्णान्तस्यापदस्य तद्धिते ऽव्' स्यात् । औपगवः । अस्वयम्भुव इति किम् ? स्वायम्भुवः ॥७०॥ ऋवर्णोवर्ण-दोसिसुसशश्वदकस्मात्त इकस्येतो लुक् |७|४|७१॥ ऋवर्णोवर्णान्ताभ्यां दोसिसुसन्ताभ्यां शश्वदकस्माद्वर्जतान्ताच्च परस्येकस्थस्येतो 'लुक्' स्यात् । मातृकम्, नैषादकर्षुकः, दौष्कः, सार्पिष्कः, धानुष्कः, औदश्वित्कः । शश्वदकस्माद्वर्जनं किम् ? शाश्वतिकम्, आकस्मिकम् ॥७१॥ असकृत् संभ्रमे |७|४|७२ ॥ भयादिभिः प्रयोक्तुस्त्वरणे द्योत्ये 'पदं वाक्यं वाऽसकृत् प्रयोज्यम्' । अहिरहिरहिः, हस्त्यागच्छति हस्त्यागच्छति, लघु पलायध्वं लघु पलायध्वम् ॥७२॥ भृशा - SS भीक्ष्ण्या-विच्छेदे द्विः प्राक् तमबादेः | ७|४|७३ ॥ क्रियायां अवयवक्रियाणां कात्स्यं भृशार्थः, पौनःपुन्यमाभीक्ष्ण्यम्, क्रियान्तराव्यवधानमविच्छेदः, एषु द्योत्येषु 'पदं वाक्यं वा तमबादेः प्राग् द्विः' स्यात् । लुनीहि लुनीहीत्येवाऽयं लुनाति, भोजं भोजं याति, प्रपचति प्रपचति ॥ ७३ ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy