SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २३८ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अणि ७४१५२॥ अनन्तस्याऽणि अन्त्यस्वरादे-लुंगु न स्यात् । सौत्वनः ॥५२॥ संयोगादिनः १७४५३॥ संयोगात् परो य इन्, तदन्तस्याऽण्यन्त्यस्वरादे-'लुंग न' स्यात् । शातिनः ॥ गाथि-विदथि-केशि-पणि-गणिनः ७।४।५४॥ एषामण्यन्त्यस्वरादे-टुंग् न' स्यात् । गाथिनः, वैदथिनः, कैशिनः, पाणिनः, गाणिनः पुत्रः ॥५४॥ अनपत्ये ७४१५५॥ इन्नन्तस्यानपत्यार्थेऽण्यन्त्यस्वरादे-'लुंग न स्यात् । सांराविणम् ॥५५॥ उक्ष्णो लुक् ७४५६॥ उक्ष्णोऽनपत्येऽण्यन्त्यस्वरादे-'लुक्' स्यात् । औक्षं पदम् । अनपत्य इत्येव-औक्ष्णः ॥५६॥ ब्रह्मणः ७४१५७॥ अस्यानपत्येऽण्यन्त्यस्वरादे-'लुक्' स्यात् । ब्राह्ममत्रम् ॥५७॥ जातौ ७१४५८॥ ब्रह्मणो जातावर्थेऽनपत्येऽण्यन्त्यस्वरादे-'लुक्' स्यात् । ब्राह्मी औषधिः । अपत्ये तु ब्राह्मणः । जाताविति किम् ? ब्राह्मो नारदः ॥५८॥ अवर्मणो मनोऽपत्ये ७४५९॥ वर्मन्वर्जमन्नन्तस्यापत्यार्थेऽण्यन्त्यस्वरादे-'लुक्' स्यात् । सौषामः । अवर्मण इति किम् ? चाक्रवर्मणः ॥५९॥ हितनाम्नो वा ७४१६०॥ अस्यापत्यार्थेऽण्यन्त्यस्वरादे-'लुंग वा' स्यात् । हैतनामः, हैतनामनः ॥६०॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy