________________
२३४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् .
एयान्तांशात् प्रात् प्ररस्य वाहणस्य णिति तद्धिते स्वरेष्वादे-'वृद्धिः' स्यात्, 'प्रस्य तु वा' । प्रवाहणेयिः, प्रावाहणेयिः ॥२२॥
नञः क्षेत्रज्ञेश्वर-कुशल-चपल-निपुण - शुचेः ७।४।२३॥ नञः परेषामेषां गिति तद्धिते स्वरेष्वादे-'वृद्धिः' स्यात्, 'नजस्तु वा' । अक्षेत्रज्ञम्, आक्षेत्रज्ञमा अनैश्वरम्, आनैश्वरम्; अकौशलम्, आकौशलम्। अचापलम्, आचापलम्; अनैपुणम्, आनैपुणम्: अशौचम्, आशौचम् ॥२३॥
जङ्गल-धेनु-वलजस्योत्तरपदस्य तु वा ७४॥२४॥ एतदुत्तरपदानामादेः पूर्वपदस्य स्वरेष्वादेर्नित्यं 'वृद्धिः' स्यात्, 'वा तूतरपदस्य' ञ्णिति तद्धिते । कौरुजाला, कोरुजालः । वैश्वधेनवः, वैश्वर्धेनवः । सौवर्णवलजः, सौवर्णवालजः ॥२४॥
हद्-भग-सिन्योः ७४॥२५॥ हृदाधन्तानां पूर्वपदस्योत्तरपदस्य च स्वरेष्वादे-'वृद्धिः' स्यात्, णिति तद्धिते । सौहार्दम्, सौभाग्यम्, साक्तुसैन्धवः ॥२५॥
प्राचां नगरस्य ७४२६॥ प्राग्देशार्थस्य नगरान्तस्य णिति तद्धिते पूर्वोत्तरपदयोः स्वरेष्वादे-'वृद्धि:' स्यात् । सौह्ननागरः । प्राचामिति किम् ? माडनगरः ॥२६॥
अनुशतिकादीनाम् ७४॥२७॥ एषां णिति तद्धिते पूर्वोत्तरपदयोः स्वरेष्वादे-'वृद्धिः' स्यात् । आनुशातिकम्, आनुहौडिकम् ॥२७॥
देवतानामात्वादौ ७२८॥ आत्वविषये देवतार्थानां पूर्वोत्तरपदयोः स्वरेष्वादे-'वृद्धिः' स्यात्, णिति तद्धिते । आग्नावैष्णवं सूक्तम् । आत्वादाविति किम् ? ब्राह्मप्रजापत्यम् ॥२८॥
आतो नेन्द्र-वरुणस्य ७॥२९॥