SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धोमचन्नशब्दानुशासनम् २३५ आदन्तात् पूर्वपदात् परस्येन्द्रस्य वरुणस्य चोत्तरपदस्य स्वरेष्वादे 'वृद्धिन' स्यात् । आग्नेन्द्रं सूक्तम्, ऐन्द्रावरुणम् । आत इति किम् ? आग्निवारुणम् ॥२९॥ सारवैश्वाक-मैत्रेय-धौणहत्य-धैवत्य-हिरण्मयम् ७४॥३०॥ एते-'ऽणाद्यन्ता अय्लोपादौ निपात्याः' । सारवं जलम्, ऐक्ष्वाकः, मैत्रेयः, प्रौणहत्यम्, धैवत्यम्, हिरण्मयम् ॥३०॥ वाऽन्तमा-ऽन्तितमा-ऽन्तितो-ऽन्तिया-ऽन्तिषत् ।७।४।३१॥ एते 'तमबाधन्ताः कृततिकादिलुको वा निपात्याः' । अन्तमः, अन्तिकतमः, अन्तितमः, अन्तिकतमः; अन्तितः, अन्तिकतः; अन्तियः, अन्तिक्यः; अन्तिषद्, अन्तिकसद् ॥३१॥ विन-मतोमष्ठेयसौ लुप् ७४॥३२॥ विन्मत्वोरेषु 'लुप्' स्यात् । मजयति, सजिष्टः, सजीयान्, त्वचयति, त्वचिष्ठः, त्वचीयान् ॥३२॥ अल्प-यूनोः कन् वा ७४॥३३॥ अनयोkठेयसुषु 'कन् वा स्यात् । कनयति, कनिष्ठः, कनीयान्; अल्पयति, अल्पिष्टः, अल्पीयान्; यवयति, यविष्ठः, यवीयान् ॥३३॥ प्रशस्यस्य श्रः ७४॥३४॥ अस्य ण्यादौ 'श्री' स्यात् । अयति, श्रेष्ठः, श्रेयान् ॥३४॥ वृद्धस्य च ज्यः ७४॥३५॥ अस्य प्रशस्यस्य च ण्यादौ 'ज्यः' स्यात् । ज्ययति, ज्येष्ठः ॥३५॥ ज्यायान् ७४॥३६॥ ज्यादेशात् परस्येयसो-रीत आ निपात्यः' । ज्यायान् ॥३६॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy