________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२३३ स्यात् । पूर्वपाञ्चालकः । अमद्रस्येति किम् ? पौर्वमद्रः ॥१६॥
प्राग्ग्रामाणाम् ७४॥१७॥ प्रागदेशे ग्रामार्थानां योऽशो दिगर्थस्ततः परस्यांशस्य, दिशः परेषां च प्राग्ग्रामार्थानां ज्थिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः' स्यात् । पूर्वकार्णामृत्तकः, पूर्वकान्यकुब्जः ॥१७॥
संख्या-ऽधिकाभ्यां वर्षस्याऽभाविनि ७४॥१८॥ संख्याऽर्यादधिकाच परस्य वर्षस्य णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः' स्यात्, न चेत् तद्धितो भाविन्यर्थे । द्विवार्षिकः, अधिकवार्षिकः । अभाविनीति किम् ? देवर्षिकं धान्यम् ॥१८॥
मान-संवत्सरस्याशाण-कुलिजस्याऽनाम्नि ७४१९॥ संख्याऽधिकाभ्यां परस्य शाणकुलिजवर्जस्य मानार्यस्य, संवत्सरस्य च णिति तद्धिते स्वरेष्वादेः स्वरस्य 'वृद्धिः' स्यात्, अनाम्नि । द्विकौडविकः, अधिककौडविकः, द्विसांवत्सरिकः । अशाणकुलिजस्येति किम् ? वैशाणम्, वैकुलिजिकः । अनाम्नीति किम् ? पाञ्चलोहितिकम् ॥१९॥
अर्थात् परिमाणस्याऽनतो वा त्वादेः ७४॥२०॥ अर्थात् परस्य परिमाणार्यस्य स्वरेष्वादेरद्वर्जस्वरस्य णिति तद्धिते 'वृद्धिः' स्यात्, “वा त्वर्धस्य' । अर्धकौडविकम्, आर्धकौडविकम् । अनत इति किम् ? अर्धप्रस्थिकम्, आर्धप्रस्थिकम् ॥२०॥
प्राद् वाहणस्यैये ७४॥२१॥ 'प्रात् परस्य वाहणस्य एये णिति तद्धिते स्वरेष्वादे-'वृद्धिः' स्यात, 'प्रस्य तु वा' । प्रवाहणेयः, प्रावाहणेयः ॥२१॥
एयस्य ७४॥२२॥