________________
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
२२९
इनः कच् १७३।१७०॥ इन्नन्ताद् बहुव्रीहेः स्व्यर्थात् 'कच्' स्यात् । बहुदण्डिका सेना ॥१७०॥
ऋनित्यदितः ७।३।१७१॥ ऋदन्तात्, नित्यं दिदादेशो यस्मात् तदन्ताच बहुव्रीहे: 'कच्' स्यात् । बहुकर्तृकः; बहुनदीको देशः । नित्येति किम् ? पृथुश्रीः ॥१७॥
दध्युरः- सर्पिर्मघूपानच्छालेः ।७।३।१७२॥ एतदन्ताद् बहुव्रीहे: 'कच्' स्यात् । प्रियदधिकः, प्रियोरस्कः, बहुसर्पिष्कः, अमधुकः, बहूपानत्कः, अशालिकः ॥१७२॥
पुमनडुनौ-पयो-लक्ष्म्या एकत्वे ७।३।१७३॥ एका येऽमी, तदन्ताद् बहुव्रीहे: 'कच्' स्यात् । अपुंस्कः, प्रियानडुत्कः, अनौकः, अपयस्कः, सुलक्ष्मीकः । एकत्व इति किम् ? द्विपुमान् ॥१७३॥
_ नमोऽर्थात् ७।३।१७४॥ नञः परो योऽर्थस्तदन्ताद् बहुव्रीहे. 'कच्' स्यात् । अनर्थक वचः ॥१७४॥
शेषाद् वा ७१३१७५॥ उपर्युक्तातिरिक्ताद् बहुव्रीहे: 'कच् वा स्यात् । बहुखट्वकः, बहुखट्वः । शेषादिति किम् ? प्रियपथः ॥१७५॥
न नाम्नि ७।३।१७६॥ नाम्नि विषये 'कच् न' स्यात् । बहुदेवदत्तो नाम ग्रामः ॥१७६॥
ईयसोः ७।३।१७७॥ ईयस्वन्तात् समासात् 'कच् न' स्यात् । बहुश्रेयसी सेना ॥१७७॥
सहात तुल्ययोगे ७।३।१७८॥ तुल्ययोगार्थात् सहाद् (सामर्थ्यात् तदादेः] बहुव्रीहे: 'कच् न' स्यात् । सपुत्रो