________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
|७|३|१५४॥
अग्रान्तात्, शुद्धादिभ्यश्च परस्य दन्तस्य बहुव्रीही 'दतृव' स्यात् । कुड्मलाग्रदन्, कुड्मलाग्रदन्तः; शुद्धदन्, शुद्धदन्तः शुभ्रदन्, शुभ्रदन्तः वृषदन्, वृषदन्तः; वराहदन्, वराहदन्तः; अहिदन्, अहिदन्तः; मूषिकदन्, मूषिकदन्तः शिखरदन्, शिखरदन्तः ॥ १५४॥
सं-प्राज्जानोर्जु ज्ञौ ।७।३।१५५॥
आभ्यां परस्य जानोर्बहुव्रीही 'तु-ज्ञी' स्याताम् । संज्ञः, संज्ञः प्रजुः, प्रज्ञः ॥ १५५ ॥
बोर्ध्वात् |७|३|१५६॥
ऊर्ध्वात् परस्य जानोर्बहुव्रीही 'हु-ज्ञौ वा' स्याताम् । ऊर्ध्वतुः ऊर्ध्वज्ञः, ऊर्ध्वजानुः || १५६ ॥
२२७
सुहृद् - दुर्हृन्मित्रा - मित्रे ॥७।३।१५७ ॥
सुदुर्थ्यां परस्य हृदयस्य बहुव्रीही यथासंख्यं मित्रेऽमित्रे चायें 'हद्' निपात्यः । सुहृन् मित्रम्, दुर्हृद् अमित्रः । मित्रा- ऽमित्र इति किम् ? सुहृदयो मुनिः, दुर्हृदयो व्याधः ||१५७||
धनुषो धन्वन् | ७|३|१५८ ॥
बहुव्रीहौ स्यात् । शार्ङ्गधन्वा ।। १५८||
वा नाम्नि | ७|३|१५९ ॥
धनुषो बहुव्रीही 'धन्वन् वा' स्यात्, नाम्नि । पुष्पधन्वा, पुष्पधनुः ॥१५९॥ खर - खुरानासिकाया नस् ।७।३।१६०॥
आभ्यां परस्या नासिकाया बहुव्रीही 'नस्' स्यात्, नाम्नि । खरणाः, खुरणाः ॥ १६० ॥