________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२१९ एते द्वन्द्वा 'अदन्ता' निपात्याः । ऋक्सामे, ऋग्यजुषम्, धेन्वनडुहौ, वाङ्मनसे, अहोरात्रः, रात्रिंदिवम्, नक्तंदिवम्, अहर्दिवम्, ऊर्वष्ठीवम्, पदष्ठीवम्, अक्षिध्रुवम्, दारगवम् ॥९७||
चवर्ग-द-ष-हः समाहारे ।७।३।९८॥ एतदन्ताद् द्वन्द्वात् समाहारार्थ 'दत् स्यात् । वाक्त्वचम्, संपद्विपदम्, वाक्त्विषम्, छत्रोपानहम् । समाहार इति किम् ? प्रावृट्-शरद्भ्याम् ॥९८॥
द्विगोरत्रहोऽट् ।७३।९९॥ अनन्तादहन्नन्ताच्च समाहारार्थाद् द्विगो-'रट्' स्यात् । पञ्चतक्षी, पञ्चतक्षम्, यहः । द्विगोरिति किम् ? समह्नः ।।९९॥
दि-रायुषः ७।३।१००॥ आभ्यां परो य आयुष्, तदन्तात् समाहारार्थाद् द्विगो –'रट्' स्यात् । यायुषम्, व्यायुषम् ।।१००॥
वाऽञ्जलेरलुकः ।७।३।१०१॥ द्वित्रिभ्यां परो योऽनलिस्तदन्ताद् द्विगो-'रट् वा' स्यात्, न चेद् द्विगुस्तद्धितलुगन्तः । यजलम्, व्यञ्जलि अञ्जलमयम्, त्र्यञ्जलिमयम् । अलुक इति किम् ? यालिर्घटः ॥१०१।। ।
खार्या वा ७।३।१०२॥ खार्यन्ताद् द्विगोरलुको-'ऽट् वा' स्यात् । द्विखारम्, द्विखारि; पञ्चखारधनः, पञ्चखारीधनः ॥१०२॥
वाऽर्घाच ७।३।१०३॥ अर्धात् परा या खारी तदन्तात् समासादलुको-'ऽट् वा' स्यात् । अर्धखारम्, अर्धखारी ॥१०॥