SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २२० श्रीसिद्धहेमचन्द्रशब्दानुशासनम् - नावः ।७३।१०४॥ अर्धात् परो यो नौस्तदन्तात् समासाद् द्विगोश्वाऽलुको-'ऽट् स्यात् । अर्धनावम्, अर्धनावी, पञ्चनावम् । अलुक इत्येव = द्विनौः ।।१०४।। गोस्तत्पुरुषात् १७३।१०५॥ गवन्तात् तत्पुरुषादलुको-'ऽट्' स्यात् । राजगवी । तत्पुरुषादिति किम् ? चित्रुगुः । अलुक इत्येव = पञ्चगुः पट: ।।१०५।। राजन-सखेः १७।३।१०६॥ एतदन्तात् तत्पुरुषा-'दट्' स्यात् । पञ्चराजी, राजसखः ।।१०६।। राष्ट्राख्याद् ब्रह्मणः ७।३।१०७॥ राष्ट्रार्थात् परो यो ब्रह्मा, तदन्तात् तत्पुरुषा-'दट्' स्यात् । सुराष्ट्रब्रह्मः । राष्ट्राख्यादिति किम् ? देवब्रह्मा नारदः ।।१०७|| कु-महद्भ्यां वा ७।३।१०८॥ आभ्यां परो यो ब्रह्मा तदन्तात् तत्पुरुषा-'दट् वा' स्यात् । कुब्रह्मः, कुब्रह्मा, महाब्रह्मः, महाब्रह्मा ॥१०८॥ ग्राम-कौटात् तक्ष्णः ।७।३।१०९॥ आभ्यां परो यस्तक्षा तदन्तात् तत्पुरुषा-'दट्' स्यात् । ग्रामतक्षः, कौटतक्षः ॥१०९॥ गोष्ठा-ऽतेः शुनः ७।३।११०॥ आभ्यां परो यः श्वा तदन्तात् तत्पुरुषा-'दट्' स्यात् । गोष्ठश्वः, अतिश्वो वराहः ॥११०॥ प्राणिन उपमानात ७।३।१११॥ प्राण्यादुपमानात् परो यः श्वा तदन्तात् तत्पुरुषा-दट्' स्यात् । व्याघ्रश्वः ।
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy