________________
२१८
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
एतदन्तात् पञ्चमवर्जवर्गान्ताचाव्ययीभावा-'दद् वा' स्यात् । अन्तर्गिरम्, अन्तर्गिरि; उपनदम्, उपनदि; उपपौर्णमासम्, उपपौर्णमासि; उपाग्रहायणम्, उपाग्रहायणि; उपमुचम्, उपमुक् ॥१०॥
संख्याया नदी-गोदावरीभ्याम् ।७।३।११॥ संख्यार्थात् परौ यावेतौ तदन्तादव्ययीभावा-'दः' स्यात् । पञ्चनदम्, द्विगोदावरम् ॥९१॥
शरदादेः ७३९२॥ शरदायन्तादव्ययीभावा-'दत्' स्यात् । उपशरदम्, प्रतित्यदम् ॥१२॥
जराया जरस् च ७।३।९३॥ जरान्तादव्ययीभावा-'दत्' स्यात्, तद्योगे च 'जराया जरस्' । उपजरसम् ॥१३॥
सरजसोपशुना-ऽनुगवम् ७।३।९४॥ एतेऽव्ययीभावा 'अदन्ता' निपात्याः । सरजसं मुझे, उपशुनमास्ते, अनुगवमनः ॥१४॥
__ जात-महद्-वृद्धादुष्णः कर्मधारयात् ।७।३।९५॥ एभ्यः परो य उक्षा, तदन्तात् कर्मधारया-'दत्' स्यात् । जातोक्षः, महोक्षः, वृद्धोक्षः । कर्मधारयादिति किम् ? जातस्योक्षा जातोक्षा ।।९५॥
त्रियाः पुंसो द्वन्दाच ७३९६॥ स्त्रियाः परो यः पुमान्, तदन्तात् द्वन्द्वात् कर्मधारयाचा-'इत्' स्यात् । स्त्रीपुंसौ, स्त्रीपुंसः शिखण्डी ॥१६॥
ऋकसामर्यजष-धेन्वनइह-वाइमनसा-ऽहोरात्र-रात्रिदिव-नक्तंदिवा-ऽहर्दिवोर्वष्ठीव-पदष्ठीवा-ऽतिभूव-दार
गवम् ७३।९७॥