SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २१७ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एभ्यः परौ यौ सामलोमानी, तदन्ता-'दः समासान्तः' स्यात् । प्रतिसामम्, अनुसामम्, अवसामम्, प्रतिलोमः, अनुलोमः, अवलोमः ॥८२।। ब्रह्म-हस्ति-राजपल्याद् वर्चसः १७३१८३॥ ब्रह्मादिपूर्वाद् वर्चसन्ता-'दत् समासान्तः' स्यात् । ब्रह्मवर्चसम्, हस्तिवर्चसम्, राजवर्चसम्, पल्यवर्चसम् ।।८३॥ प्रतेरुरसः सप्तम्याः ।७।३।८४॥ प्रतिपूर्वात् सप्तम्यन्तोरसन्ता-'ददन्तः' स्यात् । प्रत्युरसम् । सप्तम्या इति किम् ? प्रत्युरः ॥८४॥ अक्ष्णोऽप्राण्यङ्गे ७३८५॥ अप्राण्यङ्गादिश्यन्ता-'ददन्तः' स्यात् । लवणाक्षम् । अप्राण्यङ्ग इति किम् ? अजाक्षि ॥८५॥ संकटाभ्याम् ७३८६॥ आभ्यां परादक्ष्यन्ता-'ददन्तः' स्यात् । समक्षम्, कटाक्षः ॥८६॥ प्रति-परो-ऽनोरव्ययीभावात् ।७।३।८७॥ प्रत्यादिपूर्वादश्यन्तादव्ययीभावा-'दत्' स्यात् । प्रत्यक्षम्, परोक्षम्, अन्वक्षम् ।।८७॥ अनः ७३८८॥ अनन्तादव्ययीभावा-'दः' स्यात् । उपतक्षम् ।।८८॥ नपुंसकाद् वा ७३३८९॥ अनन्तं यत् क्लीवं तदन्तादव्ययीभावा 'दद् वा' स्यात् । उपचर्मम्, उपवर्म |८९॥ गिरि-नदी-पौर्णमास्याग्रहायण्यपञ्चमवाद् वा ७३९०॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy