________________
२१२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
शेवलायादेस्तृतीयात् ।७।३।४३॥ शेवलादिपूर्वपदस्य नृनाम्नोऽनुकम्पार्थे स्वरादी प्रत्यये तृतीयात् स्वरादूर्ध्वं ‘लुक्' स्यात् । शेवलियः, सुपरियः ॥४३॥
क्वचित् तुर्यात् ।७३।४४॥ अनुकम्पोत्पन्ने स्वरादौ प्रत्यये यथालक्ष्यं चतुर्थात् स्वरादूर्ध्वं 'लुक्' स्यात् । बृहस्पतियः । क्वचिदिति कम् ? उपडः ॥४४॥
पूर्वपदस्य वा ७३॥४५॥ अनुकम्पार्थे स्वरादौ प्रत्यये पूर्वपदस्य 'लुग् वा' स्यात् । दत्तियः, देवियः ॥
इस्वे ७।३।४६॥ इस्वार्थाद् यथायोगं 'कबादिः' स्यात् । पटकः, पचतकि ॥४६।।
कुटी-शुण्डाद् रः १७३।४७॥ आभ्यां ह्रस्वार्थाभ्यां 'र:' स्यात् । कुटीरः, शुण्डारः ॥४७॥
शम्या रु-रौ ७३१४८॥ अस्माद् इस्वार्था-'देती' स्याताम् । शमीरुः, शमीरः ॥४८॥
कुत्वा डुपः १७३।४९॥ अस्माद् ह्रस्वार्थात् 'डुपः' स्यात् । कुतुपः ॥४९॥
कासू-गोणीभ्यां तर ७१३॥५०॥ आभ्यां ह्रस्वार्याभ्यां 'तरट्' स्यात् । कासूतरी, गोणीतरी ॥५०॥
वत्सोक्षा-ऽश्वर्षभाधासे पित् १७३।५१॥ एभ्यः स्वप्रवृत्तिहेतोहसि गम्ये 'तरट् पित्' स्यात् । वत्सतरः, उक्षतरः, अश्वतर ऋषभतरः ॥५१॥