________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२११ स्युः । उपडः, उपकः, उपियः, उपिकः, उपिलः, उपेन्द्रदत्तकः ॥३६॥
ऋवर्णोवर्णात् स्वरादेरादेर्लुक् प्रकृत्या च ७।३।३७॥ ऋवर्णान्तोवर्णान्ताभ्यां परस्यानुकम्पोत्पन्नस्य स्वरादेः प्रत्ययस्या-'ऽऽदेलुक् स्यात्, लुकि तु सति 'प्रकृतेः प्रकृतिः' । मातृयः, मातृकः, मातृलः; वायुयः, वायुकः, वायुलः । स्वरादेरिति किम् ? मद्रबाहुकः ॥३७॥
लुक्युत्तरपदस्य कप्न् ।७।३।३८॥ नृनाम्नो यदुत्तरपदं तस्य, "ते लुग् वा" [३, २, १०८] इति लुकि सति ततः 'कपन्' स्यात्, अनुकम्पायां गम्यायाम् । देवदत्ता, लुकिदेवी, अनुकम्पिताऽसौ-देवका । उत्तरपदस्येति किम् ? दतिका ॥३८॥
लुक् चाजिनान्तात् ।७।३॥३९॥ अजिनान्तात् नृनाम्नोऽनुकम्पायां 'कपन्' स्यात्, तद्योगे च 'लुगुत्तरपदस्य' । व्याघ्रकः ॥३९॥
षड्व कस्वरपूर्वपदस्य स्वरे ७।३॥४०॥ षड्वर्जमेकस्वरं पूर्वपदं यस्य तस्योत्तरपदस्यानुकम्पार्थे स्वरादौ प्रत्यये 'लुक्' स्यात् । अनुकम्पितो वागाशी:- वाचियः । षड्वर्जेत्यादीति किम् ? उपेन्द्रेण दत्तः- उपेन्द्रदत्तः, सोऽनुकम्पितः- उपडः, षडङ्गुलिस्तु षडियः । स्वर इति किम् ? वागाशीर्दत्तकः ॥४०॥
द्वितीयात् स्वरादूर्ध्वम् ।७३॥४१॥ अनुकम्पार्थे स्वरादी प्रत्यये प्रकृतेर्द्वितीयात् स्वरादूर्ध्व 'लुक्' स्यात् । देवियः ॥४१॥
सन्ध्यक्षरात् तेन ७३॥४२॥ अनुकम्पार्थे स्वरादौ प्रत्यये प्रकृतेर्द्वितीयात् सन्ध्यक्षरस्वरादूचं तेन सन्ध्यक्षरेण सह 'लुक्' स्यात् । कुबियः, कहिकः ॥४२॥