________________
२१०
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
त्याद्यन्तस्य सर्वादिश्व स्वराणां मध्ये योऽन्त्यस्वरस्तस्मात् पूर्वो- 'ऽक्' स्यात्, प्राग् नित्यात् । कुत्सितमल्पमज्ञातं वा पचति - पचतकि, सर्वके, विश्वके ॥ २९ ॥ युष्मदस्मदोऽसोभादिस्यादेः | ७|३|३०||
अनयोः सोभादिवर्जस्याद्यन्तयोः स्वरेष्वन्त्यात् पूर्वो- 'ऽक्' स्यात् । त्वयका, मयका । असोभादिस्यादेरिति किम् ? युष्मकासु, युवकयोः, युवकाभ्याम् ॥३०॥ अव्ययस्य को टु च |७|३|३१||
प्राग् नित्याद्येऽर्थास्तेषु द्योत्येष्वव्ययस्य स्वरात् पूर्वो- 'ऽक्' स्यात्, तद्योगे चाऽस्य 'को द्' । कुत्सिताद्युच्चैः उच्चकैः, एवं धिक् धकिद् ||३१|| तूष्णीका |७|३|३२||
,
तूष्णीमो मः प्राक् 'का' इत्यन्तो निपात्यः प्राक् नित्यात् । कुत्सितादि तूष्णींतूष्णीकामास्ते ||३२||
कुत्सिता - ऽल्पा -ऽज्ञाते | ७|३|३३ ॥
कुत्सिताद्युपाधिकार्थाद् यथायोगं 'कबादयः' स्युः । अश्वकः, पचतकि, उच्चकैः ॥३३॥
अनुकम्पा -तद्युक्तनीत्योः |७|३|३४||
अनुकम्पायां तद्युक्तायां च नीतौ गम्यायां यथायोगं 'कबादयः' स्युः । पुत्रकः, स्वपिषकि, पुत्रकः, एहकि, उत्सङ्गके उपविश, कदमकेनाऽसि दिग्धकः ||३४|| अजातेर्नृनाम्नो बहुस्वरादियेकेलं वा | ७|३|३५||
मनुष्यनाम्नो बहुस्वरादनुकम्पायां 'एते वा' स्युः, न चेत् नृनाम जात्यर्थम् । देवियः, देविकः, देविलः, देवदत्तकः । अजातेरिति किम् ? महिषकः ||३५|| वोपादेरडाऽकौ च |७|३।३६ ॥
उपपूर्वादजात्यर्थाद् बहुस्वराद् नृनाम्नोऽनुकम्पाया-'मडाकौ, इये केलाश्च वा '