________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२०९ लून-वियातातू पशौ ७३॥२१॥ आभ्यां पश्वाभ्यां को वा' स्यात् । लूनकः, वियातकः पशुः ।।२१।।
स्नाताद् वेदसमाप्तौ ।७।३।२२॥ अस्यां गम्यायां स्नातात् 'कः' स्यात् । वेदं समाप्य स्नातः स्नातकः ॥२२॥ तनु-पुत्रा-ऽणु-बृहती-शून्यात् सूत्र-कृत्रिम-निपुणा-ऽऽच्छा
दन-रिक्त ७॥३॥२३॥ तन्वादिभ्यो यथासंख्यं सूत्राद्यर्थेभ्यः ‘कः' स्यात् । तनुकं सूत्रम्, पुत्रकः कृत्रिमः, अणुको निपुणः, बृहतिका आच्छादनम्, शून्यको रिक्तः ॥२३।।
भागेऽष्टमाञः १७।३॥२४॥ भागादिस्मात् 'जो वा' स्यात् । आष्टमो भागः ॥२४॥
षष्ठात् ७॥३॥२५॥ अस्माद् भागार्थात् 'ओ वा' स्यात् । पाठो भागः ॥२५॥
माने कश्च ।७।३।२६॥ मीयते येन तद्रूपभागार्यात् षष्ठात् 'को जश्च वा' स्यात् । षष्ठकः, षाष्ठो भागो मानं चेत् ॥२६॥
एकादाकिंचासहाये ७।३।२७॥ असहायादिकाद् ‘आकिन् कश्च' स्यात् । एकाकी, एककः ॥२७॥
प्राग नित्यात् कम् ।७।३।२८॥ नित्यशब्दसड़ीर्तनात् प्राग येऽस्तेिषु घोत्येषु 'कप् अधिकृतो' ज्ञेयः । कुत्सितोऽल्पोऽज्ञातो वाऽश्वः- अश्वकः ॥२८॥
त्यादि-सवदिः स्वरेष्यन्त्यात पूर्वोऽक ७।३।२९॥