________________
-
२०८
श्रीसिद्महेमचनशब्दानुशासनम् न तमबादिः कपोऽच्छिन्नादिभ्यः ७।३१३॥ छिनादिवर्जाद् यः कप, तदन्तात् 'तमवादिन' स्यात् । अयमेषामनयो प्रकृष्टः पटुकः । अच्छिन्नादिभ्य इति किम् ? छिनकतमः ॥१३॥
अनत्यन्ते ।७।३।१४॥ अनत्यन्तार्यात् कबन्तात् 'तमवादिन' स्यात् । इदमेषामनयोर्वा प्रकृष्टं छिन्नकम् भित्रकम् ॥१४॥
यावादिभ्यः कः ७३१५॥ स्वार्थे 'कः' स्यात् । यावकः, मणिकः ॥१५॥
कुमारीक्रीउनेयसोः ७३॥१६॥ कुमारीणां यत् क्रीडनं तदर्यान, ईयस्वन्ताच स्यार्थे 'कः' स्यात् । कन्दुकः, श्रेयस्कः ॥१६॥
लोहितान्मणी ७।३१७॥ अस्माद् मण्यर्थात् स्वार्थे 'को या' स्यात् । लोहितको मणिः, लोहितो मणिः ॥१७॥
रक्ता-ऽनित्यवर्णयोः ७३॥१८॥ लामाविरक्तादिनित्यवर्णार्याच लोहितात् 'को वा' स्यात् । लोहितकः पटः, कोक्तिकमति कोपेन ॥१८॥
कालात् ॥७३॥१९॥ कजलादिरक्तेऽनित्यवर्णे च वर्तमानात् कालात् 'को वा स्यात् । कात एवकालकः पटः, कालकं मुखं शोकेन ॥१९॥
शीतोष्णादृतौ ७३॥२०॥ आभ्यामृत्वाभ्यां 'को वा' स्यात् । शीतकः, उष्णक ऋतुः ॥२०॥