________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२०७
-
प्रकृष्टे तमप् ७।३।५॥ प्रकृथर्थात् 'तमप्' स्यात् । शुलतमः, कारकतमः ॥५॥
द्वयोर्विभज्ये च तर १७॥३॥६॥ द्वयोर्मध्ये प्रकृष्ट विभज्ये च वर्तमानात् 'तरप्' स्यात् । पटुतरा स्त्री, साक्षश्यकेभ्यः पाटलिपुत्रका आयतराः ॥६॥
क्वचित् स्वार्थे ।७३।७॥ यथालक्ष्यं स्वार्थे 'तरप् स्यात् । अभिन्नतरकम, उच्चस्तराम् ॥७॥
किंन्त्यायेऽव्ययादसत्त्वे तयोरन्तस्या-ऽऽम् ७३८॥ किमस्त्याधन्तादेकारान्तादव्ययाच परयोस्तमप्-तरपोरन्तस्या-'ऽऽम्' स्यात्, न चेत् तौ सत्त्वे- द्रव्ये वर्तते । किन्तराम्, किन्तमाम्; पचतितराम्, पचतितमाम्। पूर्वाह्नतराम, पूर्वाह्णतमां मुझे, अतितराम, अतितमाम् । असत्त्व इति किम् ? किन्तरं दारु ॥८॥
गुणागाद् वेठेयसू ।७।३।९॥ गुणप्रवृत्तिहेतुकात् तमप्-तरपोर्विषये ययासंख्य-'मेती वा' स्याताम् । पटिष्ठः, पटुतमः; गरीयान्, गुरुतरः ॥९॥
त्यादेच प्रशस्ते रूप ७॥३॥१०॥ त्यायन्ताद् नाम्नश्च प्रशस्तार्थाद् 'रूप' स्यात् । पचतिरूपम्, दस्युरूपम् ॥१०॥
अतमबादेरीषदसमाप्ते कल्पप-देश्यप्-देशीयर् ।७।३।११॥ किञ्चिदसमाप्तार्यात् त्याधन्तात् नाम्नश्च तमवाधन्तवर्जा-'देते' स्युः । पचतिकल्पम्, पचतिदेश्यम्, पचतिदेशीयम्; पटुकल्पा, पटुदेश्या, पटुदेशीया ॥११॥
नाम्नः प्राग बहुर्वा ७३.१२॥ ईषदपरिसमाप्ताद् नाम्नः प्राग् 'बहुर्वा' स्यात् । बहुपटुः, पटुकल्पः ॥