SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २०६ श्रीसिटहेमचन्द्रशब्दानुशासनम् स्वार्थे वा स्यात् । मृत्तिका, मृत् ॥१७१॥ स-स्नौ प्रशस्ते ७।२।१७२॥ प्रशस्तार्थाद् मृदः ‘स-स्नी वा' स्याताम् । मृत्सा, मृत्स्ना ।।१७२॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन- लघुवृत्ती सप्तमस्याध्यायस्य द्वितीयः पादः समाप्तः ||७।२।। उत्साहसाहसवता भवता नरेन्द्र ! धाराव्रतं किमपि तद् विषमं सिषेवे । यस्मात् फलं न खलु मालवमात्रमेव, श्रीपर्वतोऽपि तव कन्दुककेलिपात्रम् ॥२६॥ तृतीयः पादः] प्रकृते मयट् ।७।३।१॥ प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम्, तदर्यात् स्वार्थे 'मयट्' स्यात् । अनमयम्, पूजामयम् ॥१॥ अस्मिन् ।७३॥२॥ प्रकृतार्यादस्मिन्निति विषये 'मयट्' स्यात् । अपूपमयं पर्व ॥२॥ तयोः समूहवच बहषु ७॥३॥३॥ प्रकृतेऽस्मिन्निति च विषययोर्बह्वात् ‘समूह इव प्रत्ययः' स्यात्, ‘मयट् च' । आपूपिकम, अपूपमयम्, अपूपास्तत्पर्व वा ॥३॥ निन्ये पाशप् ७३॥४॥ निन्द्यार्थात् स्वार्थे 'पाशप् स्यात् । छान्दसपाशः ॥४॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy