________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२०५
पुराणम् ॥१६१॥
देवात् तल् ७।२।१६२॥ स्वार्थे वा स्यात् । देवता ॥१६२॥
होत्राया ईयः ।७।२।१६३॥ स्वार्थे वा स्यात् । होत्रीयम् ।।१६३।।
भेषजादिभ्यष्ट्रयण ७।२।१६४॥ स्वार्थे वा स्यात् । भैषज्यम्, आनन्त्यम् ॥१६४।।
प्रज्ञादिभ्योऽण् ।७।२।१६५॥ स्वार्थ-'ऽण् वा स्यात् । प्राज्ञः, वाणिजः ॥१६५।।
श्रोत्रौषधि-कृष्णाच्छरीर-भेषज-मृगे ७।२।१६६॥ एभ्यो यथासंख्यं शरीराद्यर्थेभ्यः स्वार्थे-'ऽण् वा' स्यात् । श्रौत्रं वपुः, औषधं भैषजम्, काष्र्णो मृगः ॥१६॥
कर्मणः सन्दिष्टे ।७।२।१६७॥ सन्दिष्टार्थात् कर्मणः स्वार्थे-'ऽण् वा' स्यात्, अन्येनान्योऽन्यस्मै यदाह त्वयेदं कार्यमिति तत्सन्दिष्टम् । कार्मणम् ।।१६७॥
वाच इकण ७।२।१६८॥ सन्दिष्टार्थाद् स्यात् । वाचिकं वक्ति ॥१६८।।
विनयादिभ्यः १७।२।१६९॥ स्वार्थे 'इकण वा' स्यात् । वैनयिकम्, सामयिकम् ।।१६९।।
उपायाध्रस्वश्च १७।२।१७०॥ स्वार्थे 'इकण वा' स्यात्, तद्योगे च 'इस्वः' । औपयिकम् ॥१७॥
मृदस्तिकः ।७।२।१७१॥