________________
श्रीसिद्ध हेमचन्द्रशब्दानुशासनम्
वैकाद् द्वयोर्निर्धार्ये उतरः | ७|३|५२ ||
एकाद् द्वयोरेकस्मिन् निर्धार्येऽर्थे 'उतरो वा' स्यात् । एकतरः, एकको वा भवतोः कठः पटुर्गन्ता चैत्रो दण्डी वा ॥५२॥ यत् तत् किमन्यात् | ७|३|५३॥
२१३
एभ्यो द्वयोरेकस्मिन्निर्धार्येऽर्थे वर्त्तमानेभ्यो 'इतर' स्यात् । यतरो भवतोः कठादिस्ततर आगच्छेत्, एवं - कतरः, अन्यतरः ॥ ५३ ॥ बहूनां प्रश्ने उतमश्च वा | ७|३|५४ ||
यदादिभ्यो बहूनां मध्ये निर्धार्यार्थेभ्यः प्रश्ने 'डतमो उतरश्च वा स्यात् । यतमो यतरो वा भवतां कठस्ततरस्ततमो वा यातु, एवं - कतमः, कतरः, अन्यतमः, अन्यतरः, पक्षे- यको यो वा, सकः स वा भवतां कठ इत्यादि । वैका | ७|३|५५ ॥
एकाद् बहूनां मध्ये निर्धार्यार्थात् 'उतमो वा' स्यात् । एकतमः, एककः, एको वा भवतां कठः || ५५॥
क्तात् तमबादेश्चात्यन्ते |७|३|५६ ॥
क्तान्तात् केवलात् तमबाधन्ताच्चानत्यन्तार्थात् 'कप्' स्यात् । अनत्यन्तं भिनंभित्रकम्, भिन्नतमकम्, भित्रतरकम् ||५६ ॥
न सामिवचने | ७|३|५७॥
अर्धवचने उपपदेऽनत्यन्तार्थात् कान्तात् केवलात् तमबाधन्ताच 'कप् न' स्यात् । सामि अनत्यन्तं मित्रम्, अर्धमनत्यन्तं मित्रम् ॥५७॥ नित्यं अ - जिनोऽणू | ७|३।५८ ॥
अ-त्रिनन्तात् स्वार्थे 'नित्यमन्' स्यात् । व्यावक्रोशी साङ्कोटिनम् ॥५८॥ विसारिणो मत्स्ये | ७|३|५९॥