________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२०३
अव्यक्तानुकरणस्यानेकस्वरस्य द्वित्वे सति इतौ परेऽतो 'लुग् न' स्यात् । पटत्पटदिति ||१४७॥
तो वा ७।२।१४८॥ द्वित्वेऽव्यक्तानुकरणस्यानेकस्वरस्यात 'स्तो लुग् वा' स्यात्; इतौ परे । पटत्पटेति करोति, पटत्पटदिति वा ॥१४८॥
___डाच्यादौ ।७।२।१४९॥ अव्यक्तानुकरणस्यानेकस्वरस्याच्छब्दान्तस्य द्वित्वे सति आद्यतस्तो डाचि 'लुक्' स्यात् । पटपटा करोति । आदाविति किम् ? पतपता करोति ॥१४९॥
बहल्पात कारकादिष्टा-ऽनिष्टे शस् ७।२।१५०॥ बह्वल्पाभ्यां कारकवाचिभ्यां यथासंख्यमिष्टेऽनिष्टे च विषये 'शस् पिद् वा' स्यात्, इष्टं- प्राशिवादि, अनिष्टं- श्राद्धादि । ग्रामे बहवो बहुशो वा ददाति, एवम्- भूरिशः, अल्पमल्पशो वा धनं दत्ते श्राद्धे, एवं-स्तोकशः । इष्टानिष्ट इति किम् ? बहु दत्ते श्राद्धे, अल्पं प्राशिः ॥१५०॥
संख्यैकार्थाद् वीप्सायां शस् ।७।२११५१॥ संख्यकार्याभ्यां कारकार्थाभ्यां वीप्सायां द्योत्यमानायां 'शस् वा' स्यात् । एकैकमेकशी वा दत्ते, माषं माषं माषशो वा देहि । संख्यैकार्यादिति किम् ? माषौ माषौ दत्ते । वीप्सायामिति किम् ? द्वौ दत्ते ॥१५१॥ संख्याऽऽदेः पादादिभ्यो दान-दण्डे चाऽकर लुकु च
७।२।१५२॥ संख्यार्थादवयवात् परे ये पादादयस्तदन्ताद् दाने दण्डे वीप्सायां च विषये'ऽकल्' स्यात्, तद्योगे च 'प्रकृतेरन्तस्य लुक्' । द्विपदिकां दत्ते दण्डितो मुझे वा, एवं- द्विशतिकाम् ॥१५२॥