________________
२०२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
पौषधव्रतम् ।।१४०॥
दुःखात् प्रातिकूल्ये ७।२।१४१॥ दुःखात् प्रातिकूल्ये गये कृग्योगे 'डाच्' स्यात् । दुःखा करोति शत्रुम् । प्रातिकूल्य इति किम् ? दुःखं करोति रोगः ॥१४१॥
शूलात् पाके १७२११४२॥ शूलात् पाके गम्ये कृग्योगे 'डाच्' स्यात् । शूला करोति मांसम् ।।१४२॥
सत्यादशपथे ७।२।१४३॥ अशपथात् सत्यात् कृग्योगे 'डाच्' स्यात् । सत्या करोति वणिग् भाण्डम् । अशपथ इति किम् ? सत्यं करोति, शपथमित्यर्थः ॥१४३॥
मद्र-भद्राद् वपने ७२१४४॥ आभ्यां मुण्डने गम्ये कृग्योगे 'डाच्' स्यात् । मद्रा करोति, भद्रा करोति नापितः । वपन इति किम् ? मद्रं करोति, भद्रं करोति साधुः ।।१४४॥ अव्यक्ताऽनुकरणानेकस्वरात् कृ-म्वस्तिनाऽनितौ द्विश्च
७।२।१४५॥ यस्मिन् ध्वनी वर्णा विशेषरूपेण नाभिव्यज्यन्ते सोऽव्यक्तः, तदनुकरणादनेकस्वराद् अनितिपरात् कृ-म्वस्तियोगे 'डाच् वा' स्यात्, 'द्विचास्य प्रकृतिः' । पटपटा करोति, भवेत्, स्याद् वा । अनेकस्वरादिति किम् ? खाट् करोति । अनिताविति किम् ? पटिति करोति ॥१४५॥
इतावतो लुक् ७।२।१४६॥ अव्यक्तानुकरणस्यानेकस्वरस्य योऽदिति तस्येतिशब्दे 'लुक्' स्यात् । पटिति ।।१४६॥
न द्वित्वे ७।२।१४७॥