________________
श्रीसिदहेमचन्द्रशब्दानुशासनम्
२०१
सप्तमी-द्वितीयाद् देवादिभ्यः ।७।२।१३४॥ एभ्यो झ्यमन्तेभ्यः स्वार्थे 'त्रा' स्यात् । देवत्रा वसेत्, भवेत्, स्यात्, करोति वा, एवं मनुष्यत्रा ||१३४॥
तीय-शम्ब-बीजात् कृगा कृषौ डान् ।७।२।१३५॥ तीयान्ताच्छम्ब-बीजाभ्यां च कृयोगे कृषिविषये 'डाच्' स्यात् । द्वितीया करोति, शम्बा करोति, बीजा करोति क्षेत्रम् । कृषाविति किम् ? द्वितीयं पटं करोति ॥१३५॥
सङ्ख्यादेर्गुणात् १७।२।१३६॥ सङ्ख्याया आघवयवात् परो यो गुणस्तदन्तात् कृग्योगे कृषिविषये 'डाच् स्यात् । द्विगुणा करोति क्षेत्रम् ॥१३६।।
समयाद् यापनायाम् ७।२।१३७॥ अस्मात् कालक्षेपे गम्ये कृग्योगे 'डाच्' स्यात् । समया करोति, कालं क्षिपतीत्यर्थः ॥१३७॥
सपत्र-निष्पत्रादतिव्यथने ७।२।१३८॥ आभ्यां कृग्योगेऽतिपीडने गम्ये 'डाच्' स्यात् । सपत्रा करोति मृगम्, निष्पत्रा करोति । अतिव्ययन इति किम् ? सपत्रं करोति तरुं सेकः ॥१३८॥
निष्कुलानिष्कोषणे ७।२।१३९॥ अस्मात् कृग्योगे निष्कोषणेऽर्थे 'डाच्' स्यात् । निष्कुला करोति दाडिमम् । निष्कोषण इति किम् ? निष्कुलं करोति शत्रुम् ॥१३९॥
प्रिय-सुखादानुकूल्ये ७।२।१४०॥ आभ्यां कृग्योगे आनुकूल्ये गम्ये 'डाच्' स्यात् । प्रिया करोति, सुखा करोति गुरुम् । आनुकूल्य इति किम् ? प्रियं करोति साम, सुखं करोति