________________
२००
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
इसुसोर्बहुलम् ७।२।१२८॥ इसुसन्तस्य च्ची 'बहुलं लुक्' स्यात् । सपीकरोति नवनीतम्, धनूस्याद् वंशः । न च भवति- सर्पिर्भवति, धनुर्भवति ॥१२८||
व्यानस्यान्त ईः १७।२।१२९॥ व्यञ्जनान्तस्य च्ची बहुल- 'मीरन्तः' स्यात् । दृषदीभवति शिला । न च भवति- दृषद्भवति शिला ||१२९।।
व्याप्ती स्सात् ७।२।१३०॥ कृ-म्वस्तिभ्यां कर्म कर्तृभ्यां प्रागतत्तत्त्व इति विषये 'सादिः सात्' स्यात्, व्याप्ती- प्रागतत्तत्वस्य सर्वात्मना द्रव्येण सम्बन्धे गम्ये । अग्निसात् काष्ठं करोति, अग्निसाद्भवति, अग्निसात् स्यात् ॥१३०॥
जातेः सम्पदा च ७।२।१३१॥ कृ-भ्वस्तिभिः सम्पदा च योगे कृग्कर्मणो म्वस्तिसम्पत्कर्तुश्च प्रागतत्तत्त्वेन सामान्यस्य व्याप्ती ‘स्सात्' स्यात् । अस्यां सेनायां सर्व शस्त्रमग्निसात् करोति दैवम्, एवम्- अग्निसात् भवति, अग्निसात् स्यात्, अग्निसात् सम्पद्यते ।।१३१॥
तत्राऽधीने ७।२।१३२॥ तत्रेति- झ्यन्ताद् आयत्तेऽर्थे कृ-स्वस्ति-सम्पद्योगे 'स्सात्' स्यात् । राजसात् करोति, राजसाद् भवति, राजसात् स्यात्, राजसात् सम्पद्यते ॥१३२।।
देये त्रा च ७।२।१३३॥ ड्यन्ताद् देये आयत्तेऽर्थे कृ-म्वस्ति-सम्पद्योगे 'त्रा' स्यात् । देवत्रा करोति द्रव्यम्, देवत्रा भवेत, स्यात्, सम्पद्यते वा । देय इति किम् ? राजसात् स्यात् राष्ट्रम् ॥१३३॥