SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् वोत्तरात् | ७|२|१२१॥ दिगाद्यर्थादस्मात् सि-यन्ताद् 'आ, आहिश्च वा' स्यात् । उत्तरा, उत्तराहि, उत्तरतः, उत्तराद् रम्यं वासो वा ॥ १२१ ॥ अदूरे एनः | ७|२११२२ ॥ दिक्शब्दाददूरदिगाद्यर्थात् सि ड्यन्ता-'देनः' स्यात् । पूर्वेणास्य रम्यं वसति वा ।। १२२ ।। १९९ लुबञ्चः ।७।२।१२३॥ अञ्चत्यन्ताद् दिक्शब्दाद् दिगादिवृत्तेः सिङसिङ्यन्ताद् विहितो 'यो धा, एनो वा, तस्य लुप् स्यात् । प्राग् रम्यमागतो वासो वा ॥ १२३॥ पश्चोऽपरस्य दिक्पूर्वस्य चाऽऽति |७|२|१२४|| अपरस्य केवलस्य दिगर्थपूर्वपदस्य चाऽऽति परे 'पश्चः' स्यात् । पश्चात्, दक्षिणपश्चात् रम्यमागतो वासो वा ।। १२४ || वोत्तरपदेऽर्धे | ७|२|१२५॥ अपरस्य केवलस्य दिक्पूर्वस्य चार्धे उत्तरपदे 'पश्चो वा' स्यात् । पश्चार्धम्, अपरार्धम् दक्षिणपश्चार्द्धः, दक्षिणापरार्द्धः ||१२५|| कृ-ध्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे च्चिः | ७|२|१२६॥ कर्मार्थात् कृगा योगे, कर्त्रर्थाच्च भ्वस्तियोगे प्रागभूततद्भावे गम्ये 'च्विः' स्यात् । शुक्कीकरोति पटम्, शुक्कीभवति, शुक्कीस्यात् पटः । प्रागिति किम् ? अशुकं शुकं करोत्येकदा ॥ १२६ ॥ अरुर्मनश्चक्षुश्चेतो- रहो- रजसां लुकु च्चौ | ७|२|१२७|| | एषां च्ची 'अन्तस्य लुक् स्यात् । अरूस्यात्, महाऽरूस्यात्, मनीस्यात्, वक्षूस्यात्, चेतीस्यात्, रहीस्यात्, रजीस्यात् ॥ १२७||
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy