________________
१९८
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
ऊर्ध्वाद् रि-रिष्टातौ उपञ्चास्य ।७।२।११४॥ ऊर्ध्वाद् दिग-देश-कालार्थात् सि-उसि-झ्यन्ता-'देतो' स्याताम्, 'उपश्चोर्ध्वस्य' । उपरि, उपरिष्टाद् रम्यमागतो वासो वा ॥११४॥
पूर्वा-ऽवरा-ऽघरेभ्योऽसस्तातौ पुरवपश्चैषाम् ।७।२।११५॥ एभ्यो दिग्-देश-कालार्येभ्यः सि-उसि-झ्यन्तेभ्यो-'ऽस्, अस्तात् च' स्यात्, एषां च यथासंख्यं 'पुर, अव्, अध् च' । पुरः, अवः, अधः, पुरस्तात्, अवस्तात्, अधस्ताद् रम्यमागतो वासो वा ॥१५॥
परा-ऽवरात् स्तात् ।७।२।११६॥ आभ्यां दिगाधर्याभ्यां प्रथमाधन्ताभ्यां स्वार्थे “स्तात्' स्यात् । परस्तात्, अवरस्ताद् रम्यमागतो वासो वा ॥११६।।
दक्षिणोत्तराचाऽतस ७।२।११७॥ आभ्यां परावराभ्यां च दिगाधर्याभ्यां प्रथमाधन्ताभ्यां स्वार्थे-'ऽतस्' स्यात् । दक्षिणतः, उत्तरतः, परतः, अवरतो रम्यमागतो वासो वा ॥११७॥
अघरा-ऽपराचाऽऽत् ७।२।११८॥ आभ्यां दक्षिणोत्तराभ्यां च दिगाधाभ्यां प्रथमायन्ताभ्या-'मात्' स्यात् । अधरात्, पश्चात्, दक्षिणात्, उत्तराद् बम्यमागतो वासो वा ॥१८॥
वा दक्षिणात प्रथमा-सप्तम्या आः ७।२।११९॥ अस्माद् दिग्-देशार्थात् सि-ड्यन्ताद्, 'आ वा' स्यात् । दक्षिणा, दक्षिणतः, दक्षिणाद् रम्यं वासो वा ॥११९॥
आ-ऽऽही दूरे ७।२।१२०॥ दूरदिग्-देशात् सि-यन्ताद् दक्षिणाद् ‘आ, आहिच' स्यात् । ग्रामाद् दक्षिणा, दक्षिणाहि रम्यं वासो वा ॥१२०॥