________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१९७
ऐकध्यम्, एकधा भुते; अनेकमेकं करोति-ऐकध्यम्, एकधा वा करोति ॥१०६ ॥ द्वि-त्रेर्धमधौ वा |७|२|१०७ ॥
आभ्यां प्रकारार्थाभ्यां विचाले च गम्ये 'एतौ वा' स्याताम् । द्वैधम्: त्रैधम्; द्वेधा, त्रेधा; द्विधा; त्रिधा, भुङ्क्ते; एकराशि द्वौ करोति - द्वैधम्, त्रैधम्; द्वेधा, त्रेधा द्विधा, त्रिधा, करोति ॥१०७॥ तद्वति घणू |७|२|१०८ ॥
द्वित्रिभ्यां प्रकारवति विचालवति चार्थे 'धण्' स्यात् । द्वैधानि वैधानि ॥ वारे कृत्वस् |७|२|१०९ ॥
वारवृत्तेः संख्यार्थाद् वारवति धात्वर्थे 'कृत्वस्' स्यात् । पञ्चकृत्वो भुङ्क्ते ॥ द्वि- त्रि- चतुरः सुच् /७/२1११० ॥
एभ्यो वारार्थेभ्यस्तद्वति 'सुच् स्यात् । द्विः त्रिः, चतुर्भुजे ॥११०॥
"
एकात् सकृच्चास्य |७|२|१११॥
अस्माद् वारार्थाद् तद्वति 'सुच्' स्यात्, 'सकृच्चा' ऽस्य । सकृद् ॥ १११ ॥ बहोस | ७ | २|११२ ॥
I
बहोः संख्यार्थाददूरवारार्थात् तद्वति 'धा' स्यात् । बहुधा भुङ्क्ते ॥ ११२ ॥ दिक्शब्दाद् दिग्- देश - कालेषु प्रथमा - पञ्चमी - सप्तम्याः
।७।२।११३॥
दिशि दृष्टाद् दिगाद्यर्थात् सि ङसि यन्तात् स्वार्थे 'धा' स्यात् । प्राची दिग् रम्या- प्राग्रम्यम्, प्राग् देशः कालो वा रम्यः प्राग्रम्यम्, प्राच्या दिशो देशकालाभ्यां वा आगतः प्रागागतः प्राच्यां दिशि देश-कालयोर्वा वास:प्राग्वासः ।।११३।।