________________
१९४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
पर्यभेः सर्वोभये ७।२।८३॥ आभ्यां यथासंख्यं सर्वोभयाभ्यां 'तसुः' स्यात् । परितः, अभितः सर्वोभय इति किम् ? वृक्षं परि, अभि वा ॥८३॥
__आयादिभ्यः ७।२।८४॥ एभ्यः सम्भवत्स्यायन्तेभ्य- 'स्तसुः' स्यात् । आदितः, मध्यतः ।।४।।
क्षेपा-ऽतिग्रहा-ऽव्यथेष्वकर्तुस्तृतीयायाः ।७।२।८५॥ टान्तादकत्रर्थात् क्षेपादिविषये 'तसुः' स्यात् । वृत्ततः क्षिप्तोऽतिग्राह्यो न व्यथते वा । अकर्तुरिति किम् ? मैत्रेण क्षिप्तः ॥८५॥
पाप-हीयमानेन ।७।२।८६॥ आभ्यां योगे टान्तादकर्तु-'स्तसुः' स्यात् । वृत्ततः पापो हीयते वा ॥८६॥
प्रतिना पञ्चम्याः ।७।२।८७॥ प्रतिना योगे जातपञ्चम्यन्तात् 'तसुर्वा' स्यात् । अभिमन्युरर्जुनाद्, अर्जुनतो या प्रति ॥४७॥
अहीय-रुहोऽपादाने ७२१८८॥ अपादानपञ्चम्यन्तात् 'तसुर्वा' स्यात्, न चेत् तद् हीय-रुहोः । ग्रामाद् ग्रामतो वैति । अहीय-रुह इति किम् ? सायद् हीनो गिरेरवरोहति ||८||
किमयादिसर्वायवैपुल्यबहोः पित् तस् ।७।२।८९॥ किमो द्वयादिवर्जसर्वादिभ्योऽवैपुल्यार्थबहोश्च इस्यन्तात् 'तस् पित्' स्यात् । कुतः, सर्वतः, यतः, बहुतः । यादिवर्जनं किम् ? द्वाभ्याम् त्वत् । अवैपुल्येति किम् ? बहोः सूपात् ॥८९॥
इतोऽतः कुतः ७।२।९०॥ एते 'तसन्ता' निपात्याः ॥१०॥