________________
१९२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
मन्-मा-5जादेनाम्नि ७।२।६७॥ मनन्ताद् मान्तेभ्योऽब्जादेश्च मत्वर्थे 'इन्नेव' स्यात्, नाम्नि । दामिनी, सोमिनी, अब्जिनी, कमलिनी ॥६७॥
हस्त-दन्त-कराज्जातौ ७।२।६८॥ एभ्यो मत्वर्थे 'इन्नेव' स्यात्, एतदन्तस्य जातावर्थे । हस्ती, दन्ती, करी ॥६८॥
वर्णाद् ब्रह्मचारिणि ७।२।६९॥ वर्णाद् मत्वर्थे 'इन्नेव' स्यात्, चेद् ब्रह्मचार्यर्थः । वर्णी ब्रह्मचारीत्यर्थः, वर्णवानन्यः ॥६९॥
पुष्करादेर्देशे ।७।२७०॥ एभ्यो मत्वर्थे 'इन्नेव' स्यात्, देशेऽर्थे । पुष्करिणी, पद्मिनी । देश इति किम् ? पुष्करवान् हस्ती ॥७०॥
सूक्त-साम्नोरीयः ७।२७१॥ सूक्ते साम्नि चार्थे मत्वर्थे 'ईयः' स्यात् । अच्छावाकीयं सूक्तम्, यज्ञायज्ञीयं साम ॥७॥
लुब् वाऽध्याया-ऽनुवाके ७।२।७२॥ अनयोर्मत्वर्थे ईयस्य “लुब् वा' स्यात्, लुविधेरेवेयः । गर्दभाण्डः, गर्दभाण्डीयोऽध्यायोऽनुवाको वा ॥७२॥
विमुक्तादेरण ७।२।७३॥ एभ्यो मत्वर्थेऽध्याया-ऽनुवाकयो- 'रण' स्यात् । वैमुक्तः, दैवासुरोऽध्यायोऽनुवाको वा ॥७३॥
घोषदादेरकः ७२।७४॥ एभ्यो मत्वर्येऽध्याया-ऽनुवाके 'ऽकः' स्यात् । घोषदकः, गोषदकोऽध्यायादिः॥