SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १९१ नैष्कशतिकः, नैष्कसहस्रिकः । आदेरिति किम् ? स्वर्णनिष्कशतमस्यास्ति ॥ एकादेः कर्मधारयात् ।७/२/५८ ॥ अस्माददन्ताद् मत्वर्थे 'इकण्' स्यात् । ऐकगविकः ॥ ५८॥ सवदिरिन् |७|२|५९॥ सर्वाऽऽदेरदन्तात् कर्मधारयाद् 'इन्' स्यात् । सर्वधनी ॥५९॥ प्राणिस्थादस्वाङ्गाद् द्वन्द्व-रुग्- निन्यात् |७|२|६०॥ प्राणिस्थोऽस्वाङ्गार्थोऽदन्तो यो द्वन्द्वो, यश्च रुग्वाची, निन्द्यार्थश्च तस्माद् मत्वर्थे 'इन्' स्यात् । कटकवलयिनी, कुष्टी, ककुदावर्त्ती । प्राणिस्थादिति किम् ? पुष्पफलवान् वृक्षः । अस्वाङ्गादिति किम् ? स्तनकेशवती ॥६०॥ वाता - ऽतीसार-पिशाचात् कश्चान्तः | ७|२२६१ ॥ एभ्यो मत्वर्थे 'इन्' स्यात्, 'कश्चान्तः' । वातकी, अतिसारकी, पिशाचकी ॥ ६१ ॥ पूरणाद्वयसि |७|२|६२॥ पूरणप्रत्ययान्ताद् वयसि गम्ये मत्वर्थे 'इन्नेव' स्यात् । पञ्चमी बालः ॥ ६२ ॥ सुखादेः |७|२२६३॥ एभ्यो मत्वर्थे 'इनेव' स्यात् । सुखी, दुःखी ||६३|| मालायाः क्षेपे | ७ | २|६४॥ मत्वर्थे 'इन्नेव' स्यात् । माली । क्षेप इति किम् ? मालावान् ||६४|| धर्म-शील - वर्णान्तात् |७|२|६५॥ धर्माद्यन्ताद् मत्वर्थे 'इन्नेव' स्यात् । मुनिधर्मी, यतिशीली, ब्राह्मणवर्णी ॥६५॥ बाहूवदिर्बलात् ।७।२१६६॥ बाहूरुपूर्वाद् बलाद् मत्वर्थे 'इन्नेव' स्यात् । बाहुबली, ऊरुबली ॥ ६६ ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy