________________
१९०
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
स्वामिनीशे ७।२।४९॥ स्वाद् मत्वर्थे ईशे 'मिन्' स्यात्, 'दीर्घ श्वास्य । स्वामी, स्ववान् अन्यः ॥
गोः ७।२५०॥ गोर्मत्वर्थे 'मिन्' स्यात् । गोमी, गोमान् ॥५०॥
ऊर्जा विन-वलावश्चान्तः ।७।२।५१॥ ऊर्जा मत्वर्थे 'विन्-वलौ' स्याताम्, तद्योगे चोर्नो-'ऽसन्तः' । ऊर्जस्वी, ऊर्जस्वलः, ऊर्वान् ॥५१॥
तमिमाऽर्णव-ज्योत्स्ना ७।२।५२॥ एते मत्वर्थे 'निपात्याः' । तमिमा रात्रिः, तमिनाणि गुहामुखानि, तमस्वान्, अर्णवः समुद्रः, ज्योत्स्ना-चन्द्रप्रभा ॥५२॥
गुणादिभ्यो यः ७१२॥५३॥ एभ्यो मत्वर्थे 'यः' स्यात् । गुण्यो ना, हिम्यो गिरिः, हिमवान् ॥५३॥
रूपात प्रशस्ता-5ऽहतात् ७२।५४॥ प्रशस्तोपाधेराहतोपाधेश्च रूपाद् मत्वर्थे 'यः' स्यात् । रूयो गौः, रूप्यं कार्षापणम्, रूपवान् अन्यः ॥५४॥
पूर्णमासोऽण् ।७।२।५५॥ मत्वर्ये 'ऽण्' स्यात् । पौर्णमासी ॥५५॥
गोपूर्वादत इकण ७।२।५६॥ गोपूर्वाददन्ताद् मत्वर्थे 'इकण्' स्यात् । गौशतिकः । अत इति किम् ? गोविंशतिमान् ॥५६॥
निष्कादेः शत-सहवात् ।७।२।५७॥ निष्काघवयवात् परं यत् शतं सहस्रं च तदन्ताद् मत्वर्ये 'इकण् स्यात् ।