________________
१८७
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
प्रज्ञा-पर्णोदक-फेनालेलौ ।७।२।२२॥ एभ्यो मत्वर्थे 'लेलौ' स्याताम् । प्रज्ञालः, प्रज्ञिलः; पर्णलः, पर्णिलः; उदकल:, उदकिलः; फेनलः; फेनिलः, फेनवान् ॥२२॥
___काला-जटा-घाटात् क्षेपे ७।२।२३॥ एभ्यो मत्वर्ये 'लेली' स्याताम्, क्षेपे गम्ये । कालाल:, कालिल:; जटालः, जटिलः; घाटालः, घाटिलः । क्षेपे इति किम् ? कालावान् ॥२३॥
वाच आला-ऽऽटौ ७।२।२४॥ मत्वर्ये स्याताम, क्षेपे गम्ये । वाचालः, वाचारः ॥२४॥
ग्मिन् ।७।२।२५॥ वाचो मत्वर्थे 'ग्मिन्' स्यात् । वाग्मी, वाग्वान् ॥२५॥
___ मध्वादिभ्यो रः १७१२॥२६॥ मत्वर्थे 'र:' स्यात् । मधुरो रसः, खरो गर्दभः ॥२६॥
कृष्यादिभ्यो वलच ७।२।२७॥ मत्वर्ये 'वलच्' स्यात् । कृषीवल:=कुटुम्बी, आसुतीवलः कल्यपालः, आसुतिमान् ॥२७॥
लोम-पिच्छादेः शेलम् ।७।२।२८॥ लोमादेः पिच्छादेश्व मत्वर्थे यथासंख्यं 'श इलश्च' स्यात् । लोमशः, लोमवान्, गिरिशः; पिच्छिलः, पिच्छवान्, उरसिलः ॥२८॥
नोऽङ्गादेः ७।२।२९॥ एभ्यो मत्वर्थे 'नः' स्यात् । आना-चाङ्गी स्त्री, पामनः, पामवान् ॥२९॥
शाकी-पलाली-दवा हस्वश्च ७।२।३०॥ एण्यो मत्वर्ये 'नः' स्यात्, तद्योगे चैषां 'इस्वः' । महच्छाकं पलालं