________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
अनोः 'कः' स्यात्, तदन्तश्चेत् कमितरि । अनुकः ॥ १८८ || अभेरीश्च वा | ७|१|१८९ ॥
१८३
अभेः 'कः' स्यात्, 'ईश्चाऽस्य वा' तदन्तश्चेत् कमितरि । अभिकः, अभीकः ॥ सोऽस्य मुख्यः | ७|१|१९०॥
स इति - स्यन्ताद् अस्येति षष्ठ्यर्थे 'कः' स्यात्, स्यन्तं चेन्मुख्यार्थम् । देवदत्तकः सङ्घः ॥ १९०॥
शृङ्खलकः करभे ।७।१।१९१॥
'कान्तो' निपात्यः । शृङ्खलकः करम उष्ट्र शिशुः || १९१ ॥
उदुत्सोरुन्मनसि | ७|१|१९२॥
आभ्यामस्येति - उन्मनस्यर्थे 'कः' स्यात् । उत्कः, उत्सुकः ॥१९२॥ काल - हेतु - फलाद् रोगे |७|१|१९३॥
कालविशेषार्थेभ्यो हेत्वर्थेभ्यः फलार्थेभ्यश्च स्यन्तेभ्योऽस्येति- रोगेऽर्थे 'कः ' स्यात् । द्वितीयको ज्वरः, पर्वतको रोगः, शीतको ज्वरः || १९३ || प्रायोऽन्नमस्मिन् नाम्नि | ७|१|१९४॥
स्यन्तादस्मिन्निति - ड्यर्थे संज्ञाविषये 'कः' स्यात्, स्यन्तं चेदन्नं प्रायेण । गुडापूपिका पौर्णमासी ॥१९४॥
कुल्माषादणू ।७।१।१९५॥
अस्मात् स्यन्तात् प्रायोऽनमस्मिन्नित्यर्थे ऽण् स्यात्, नाम्नि । कौल्माषी पौर्णमासी ।।१९५||
वटकादिन् |७|१|१९६॥
अस्मात् स्यन्तात् प्रायोऽन्नमस्मिन्नित्यर्थे 'इन्' स्यात् । वटकिनी पौर्णमासी ॥