SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १८४ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् साक्षाद् द्रष्टा ७191१९७॥ साक्षातो द्रष्टेत्यस्मिन्नर्थे 'इन्' नाम्नि स्यात् । साक्षी ।।१९७।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन- लघुवृत्ती सप्तमस्याध्यायस्य प्रथमः पादः समाप्तः ॥७॥ लब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः । तथापि तव सिद्धेन्द्र ! दातेत्युक्तिधरं यशः ॥२५॥ [द्वितीयः पादः] तदस्याऽस्त्यस्मिनिति मतुः ७।२।१॥ तदिति-स्यन्ताद्, अस्येति-षध्यर्थेऽस्मिनिति-झ्यर्थे 'वा मतुः' स्यात्, चेत् स्यन्तमस्तीति । गोमान्, वृक्षवान् गिरिः । अस्तीति किम् ? गावोऽस्यासन् । इतः प्रायो भूमादौ मत्वादयः ।।१।। आ यात् ।७।२।२॥ "रूपात् प्रशस्ताहतात्" (७,२,५४) इति आ यविधेर्वक्ष्यमाणप्रकृतिभ्यो 'मतुः' स्यात्, तदस्यास्ति तदस्मिन्नस्तीति विषये । कुमारीमान्, व्रीहिमान् ॥२॥ नावादेरिकः ७२३॥ एभ्यो मत्वर्थे 'इकः' स्यात् । नाविकः, नौमान् । एवं- कुमारिकः, कुमारीमान् ॥३॥ शिखादिभ्य इन् ।७।२।४॥ एभ्यो मत्वर्थे 'इन्' स्यात् । शिखी, शिखावान: माली, मालावान् ॥४॥ बीमादिभ्यस्तो ७२५॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy