________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१८१
क्षेत्रेऽन्यस्मिन नाश्य इयः १७११११७२॥ क्षेत्रानिर्देशाद् ड्यन्तादन्योपाधिकानाश्येऽर्थे 'इयः' स्यात् । क्षेत्रियो व्याधिः, जारश्च ।।१७२॥
छन्दोऽधीते श्रोत्रश्च वा ७/१1१७३॥ अस्मादमन्तादधीतेऽर्ये 'इयो वा' स्यात, तद्योगे चास्य 'श्रोत्रः' । श्रोत्रियः, छान्दसः ॥१७३॥
इन्द्रियम् ७।१।१७४॥ इन्द्राद् ‘इयो' निपात्यः । इन्द्रस्य लिङ्गादि-इन्द्रियम् ॥१७४।।
तेन वित्ते चञ्चु-चणौ ।७।१।१७५॥ तेनेति-टान्ताद् वित्तेऽर्थे “एती' स्याताम् । विद्याचञ्चुः, केशचणः ॥१७५॥
पूरणाद् ग्रन्थस्य ग्राहके को लुक् चाऽस्य ७।१।१७६॥ पूरणप्रत्ययान्ताहान्ताद् ग्रन्यस्य ग्राहकेऽर्थे 'कः' स्यात्, तद्योगे च पूरणार्थस्य 'लुक् । द्विकः शिष्यः ॥१७६॥
ग्रहणाद् वा ७१११७७॥ गृह्यतेऽनेनेति ग्रहणम् रूपादि, ग्रन्थस्य ग्रहणार्यात् पूरणप्रत्ययान्तात् 'कः' स्वार्थे स्यात्, तद्योगे च पूरणार्थस्य 'लुग वा' । द्विकं, द्वितीयकं वा ग्रन्यग्रहणम् ॥१७७॥
सस्याद गुणात परिजाते ७१११७८॥ सस्याद् गुणार्याट्टान्तात् परिजातेऽर्थे 'कः' स्यात् । सस्यकः शालिर्देशो वा । गुणादिति किम् ? सस्पेन परिजातं क्षेत्रम् ॥१७८॥
धन-हिरण्ये कामे ७११।१७९॥ आम्यां झ्यन्ताभ्यां कामेऽर्थे 'कः' स्यात् । धनकः, हिरण्यको मैत्रस्य ।।