SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १८० श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एम्यः संख्यापूरणे 'थट्' स्यात् । षष्ठी, कतियः, कतिपयथी ॥ १६२॥ चतुरः | ७|१|१६३॥ अस्मात् संख्यापूरणे 'थट्' स्यात् । चतुर्थी ॥ १६३ ॥ येयौ च लुक् च | ७|१|१६४ ॥ चतुरः संख्यापूरणे 'एतौ' स्याताम्, चस्य 'लुक्' च । तुर्य:, तुरीयः ॥ १६४ ॥ द्वेस्तीयः |७|१|१६५॥ द्वेः संख्यापूरणे 'तीयः' स्यात् । द्वितीयः ॥ १६५ ॥ त्रेस्तु च |७|१|१६६ ॥ त्रेः संख्यापूरणे 'तीयः' स्यात् तद्योगे च 'तृ' । तृतीया ||१६६ || पूर्वमनेन सादेश्चेन् | ७|१|१६७ ॥ पूर्वमित्यमन्तात् केवलात् सपूर्वाच्चानेनेति टाऽर्थे कर्त्तरि 'इन्' स्यात् । कृतपूर्वी कटम्, पीतपूर्वी पयः ||१६७ || इष्टादेः |७|१|१६८ ॥ एम्योऽर्थात् स्यन्तेभ्यद्यर्ये कर्तरि 'इन्' स्यात् । इथे यज्ञे, पूर्ती श्राद्धे ॥ श्राद्धमद्यमुक्तमिकेनौ | ७|१|१६९ ॥ श्राद्धात् स्यन्तादद्यभुक्तादयें कर्त्तरि 'एतौ स्याताम् । श्राद्धिकः, श्राद्धी ॥ अनुपद्यन्वेष्टा |७|१|१७० ॥ एष 'इनन्तो निपात्यते, अन्वेथ चेत् । अनुपदी गवाम् || १७० ॥ दाण्डाजिनिकाऽऽयः शूलिक-पार्श्वकम् |७|१|१७१ ॥ एते यथायोग- 'मिकण्-कान्ता' निपात्या, अन्वेष्टर्ययें । दाण्डाजिनिको दाम्भिकः, आयः शूलिक. = तीक्ष्णोपायोऽर्थान्वेथ, पार्श्वकः - अनुजूपायः स एव ॥ १७१ ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy