________________
१७८
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 'मियकियो' स्याताम् । इयान्, कियान् पटः ॥१४८॥
पत्-तदेतदो डावादिः ।७।१।१४९॥ एभ्यः स्यन्तेभ्यो मानार्थेभ्यः षष्ट्यर्थे मेये-'ऽतु डबवादिः' स्यात् । यावान्, तावान्, एतावान् धान्यराशिः ॥१४९॥
यत् तत्-किमः सङ्ख्याया डतिर्वा ।७।१।१५०॥ संख्यारूपं यन्मानं तदर्थेभ्य एभ्यः स्यन्तेभ्यः षड्यर्थे संख्येये 'डतिर्वा' स्यात् । यति, यावन्तः, एवं- तति, तावन्तः; कति, कियन्तः ॥१५०॥
अवयवात् तयट् ।७।१।१५१॥ अवयववृत्तेः संख्यार्थात् स्यन्तात् षड्यर्थेऽवयविनि 'तयट्' स्यात् । पञ्चतयो यमः ॥१५१॥
द्वि-त्रिभ्यामयट् वा ७।१।१५२॥ आभ्यामवयवाभ्यां स्यन्ताभ्यां षड्यर्थे 'ऽयट् वा' स्यात् । द्वयम्, द्वितयम्; त्रयम्, त्रितयम् ||१५२॥
दयादेर्गुणान्मूल्य-क्रेये मयट् ।७।१।१५३॥ यादेर्गुणवृत्तेः स्यन्तात् षड्यर्ये ‘मयट्' स्यात्, दयादिश्चेन्मूल्यार्थः क्रयार्थो वा । द्विमयमुदश्विद् यवानाम्, एवं- त्रिमयम्; द्विमया यवा उदश्वितः, एवं- त्रिमयाः । गुणादिति किम् ? द्वौ व्रीहि-यवी मूल्यमस्य ॥१५३॥ . अधिकं तत्सङ्ख्यमस्मिन शत-सहने शति-शद्-दशा
ताया : ७1१1१५४॥ स्यन्तात् शत्याधन्तात् संख्यार्थादस्मिन्निति-झ्यर्थे, शत-सहने च 'ड:' स्यात्, स्यन्तं चेदधिकं शतादिसंख्यं च वस्तु स्यात् । विशं योजनशतं योजनसहनं वा, एवं- त्रिंशम्, एकादशम् । तत्संख्यमिति किम् ? विंशतिर्दण्डा अधिका