________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१७७ स्यन्ताभ्यां प्रमाणार्याभ्यामाभ्यां षड्यर्थे ऽण् वा' स्यात् । हास्तिनम्, हस्तिमात्रम्, हस्तिदघ्नम्, हस्तिद्वयसं जलम्, एवं- पौरुषम् ॥१४॥
वोर्ध्व दनट् द्वयसटू ।७।१।१४२॥ ऊर्ध्वं यत् प्रमाणं तदर्थात् स्यन्तात् षड्यर्थे 'वेतौ' स्याताम् । ऊरुदध्नम्, ऊरुद्वयसम्, ऊरुमात्रं जलम् । ऊर्ध्वमिति किम् ? रज्जुमात्री भूः ॥१४२॥
मानादसंशये लुप् ७।१।१४३॥ मानार्थ एव साक्षाद् यः प्रमाणशब्दो हस्त-वितस्त्यादिर्न तु रज्ज्वादिः, तस्माद् प्रस्तुतस्य मात्रडादेरसंशये गम्ये 'लुक' स्यात् । हस्तः, वितस्तिः । मानादिति किम् ? ऊरुमात्र जलम् । असंशय इति किम् ? शममा स्यात् ॥१४३॥
द्विगोः संशये च 19191१४४॥ मानान्ताद् द्विगोः संशयेऽसंशये च प्रस्तुतमात्राडादे-' प्' स्यात् । द्विवितस्तिः, द्विप्रस्थः स्यात् ।।१४४॥
मात्रट् ७।१।१४५॥ स्यन्तामानार्यात् षड्यर्थे 'मात्रट्' स्यात्, संशये । प्रस्थमात्रं स्यात् ॥१४५॥
शन्-शद्-विंशतः 1७1१1१४६॥ शनन्ताच्छदन्ताच्च सङ्ख्याद् विंशतेश्च मानवृत्तेः स्यन्तात् षड्यर्ये 'मात्रट् स्यात्, संशये । दशमात्राः स्युः, एवं- त्रिंशन्मात्राः, विंशतिमात्राः ।।१४६।।
डिन् ।७।१।१४७॥ शन्-शद्-विंशतिभ्यः स्यन्तेभ्यो मानार्थेभ्यः षड्यर्थे 'डिन्' स्यात् । पञ्चदशी अर्धमासः, त्रिंशी मासः, विशिनो भवनेन्द्राः ॥१४७।।
इदं-किमोऽतुरिय-किय चास्य ।७।१।१४८॥ आभ्यां मानाभ्यां षड्यर्थे मेये-'ऽतुः' स्यात्, तद्योगे चानयोर्ययासंख्य