________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१३
दण्डादिवर्जादायुधादेः कर्मणः पराद् धृगो-'ऽच्' स्यात् । धनुर्धरः, भूधरः । अदण्डादेरिति किम् ? दण्डधारः, कुण्डधारः ॥९४॥
हगो वयोऽनुयमे ।५।१।९५॥ कर्मणः पराद् हगो वयस्यनुद्यमे च गम्ये -ऽच्' स्यात् । अस्थिहरः श्वशिशुः; उद्यमः- उत्क्षेपणमाकाशे धारणं वा, तदभावे- अंशहरो दायादः, मनोहरा माला । वयोऽनुधम इति किम् ? भारहारः ॥१५॥
आङः शीले ।५।११९६॥ कर्मणः परादापर्वाद् हगेः शीले गम्ये -ऽच्' स्यात् । पुष्पाहरः । शील इति किम् ? पुष्पाहारः ॥१६॥
दृति-नाथात् पशाविः ।५।१।९७॥ आभ्यां कर्मभ्यां परात् हगः पशी कर्तरि 'इ:' स्यात् । दृतिहरिः श्वा, नाथहरिः सिंहः ॥९७॥
रजः-फले-मलाद ग्रहः ।५।११९८॥ एभ्यः कर्मभ्यः पराद् ग्रहेरिः स्यात् । रजोग्रहिः, फलेग्रहिः, मलग्रहिः ॥९८॥
देव-वातादापः ।५।१९९॥ आभ्यां कर्मभ्यां पराद् आपेरिः स्यात् । देवापिः, वातापिः ॥९९।।
शकृत्-स्तम्बाद् वत्स-व्रीहौ कृगः ।५।१।१००॥ आभ्यां कर्मभ्यां परात् कृगो यथासङ्ख्यं वत्स-व्रीह्योः कर्बोरिः स्यात् । शकृत्करिर्वत्सः, स्तम्बकरिनीहिः ॥१०॥
किम्-यत्-तद्-बहोरः ।५।१।१०१॥ एभ्यः कर्मभ्यः परात् कृगः 'अ' स्यात् । किंकरा, यत्करा, तत्करा, बहुकरा ॥१०१॥