SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् नगरादगजे 1५1१1८७॥ नगरात् कर्मणः पराद् हन्तेरगजे कर्तरि 'टक् स्यात् । नगरनो व्याघ्रः अगज इति किम् ? नगरपातो हस्ती ।।८७॥ राजधः ।५।११८८॥ राज्ञः कर्मणः पराद् हन्ते-'टक् घाऽऽदेशश्च निपात्यते । राजघः ॥८॥ पाणिध-ताडयौ शिल्पिनि 1५1१1८९॥ एतौ शिल्पिनि 'टगन्तौ निपात्येते । पाणिघः, ताडघः । शिल्पिनीति किम् ? । पाणिघातः, ताडघातः ॥८९॥ कुल्यात्मोदराद् भृगः खिः ।५।१।९०॥ एभ्यः कर्मभ्यः पराद् भृगः 'खिः' स्यात् । कुतिम्भरिः, आसम्परिः, उदरम्भरिः ॥१०॥ अर्होऽन् ।५।११९१॥ कर्मणः परादर्हेरच् स्यात् । पूजाऽर्हा साध्वी ॥९॥ धनु-दण्ड-त्सरु-लागला-ऽङ्कुशर्टि-यष्टि-शक्ति-तोमर घटाद् ग्रहः ।५।११९२॥ एभ्यः कर्मभ्यः पराद् ग्रहो'ऽच् स्यात् । धनुर्ग्रहः, दण्डग्रहः, त्सरुग्रहः, लागलग्रहः, अकुशग्रहः, ऋष्टिग्रहः, यष्टिग्रहः, शक्तिग्रहः, तोमरग्रहः, घटग्रहः ॥९॥ सूत्राद् धारणे ।५।१।९३॥ सूत्रात् कर्मणः पराद् ग्रहो ग्रहणपूर्वकधारणार्यादच् स्यात् । सूत्रग्रहः प्राज्ञः, सूत्रधारो वा । धारण इति किम् ? सूत्रग्राहः ॥१३॥ आयुधाऽऽदिभ्यो धृगोऽदण्डादेः ॥५॥१९॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy