SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् कर्मणः परात् संपूर्वात् ख्यो 'डः' स्यात् । गोसङ्ख्यः ॥७७॥ दश्चाऽऽङः |५|१|७८ ॥ कर्मणः परादाङ्पूर्वाद् दागः ख्यश्च डः स्यात् । दायादः व्याख्यः ॥७८॥ ११ प्राज्ञश्च |५|१|७९॥ कर्मणः परात् प्रपूर्वाद् ज्ञो दारूपाच्च 'डः' स्यात् । पथिप्रज्ञः प्रपाप्रदः ॥७९॥ आशिषि हनः | ५|१|८०| कर्मणः पराद् हन्तेराशिषि 'ड' स्यात् । शत्रुहः ॥८०॥ शाऽऽदिभ्योऽपात् ।५।१।८१ ॥ क्केशादिकर्मणः परादपाद् हन्ते - 'र्डः' स्यात् । कुशापहः, तमोऽपहः ॥८१॥ कुमार- शीर्षाणिन् ।५।१।८२ ॥ आभ्यां कर्मभ्यां पराद् हन्ते - 'र्णिन्' स्यात् । कुमारघाती, शीर्षघाती ॥८२॥ अचित्ते टक् ।५।१।८३ ॥ कर्मणः पराद् हन्तेरचित्तवति कर्त्तरि 'टक्' स्यात् । वातघ्नं तैलम् । अचित्त इति किम् ? पापघातो यतिः ॥ ८३॥ जाया - पश्चिह्नवति |५|१|८४ ॥ आभ्यां कर्मभ्यां पराद् हन्तेश्चिह्नवति कर्त्तरि 'टक्' स्यात् । जायाघ्नो ब्राह्मणः, पतिघ्नी कन्या ॥ ८४ ॥ ब्रह्माऽऽदिभ्यः | ५|१|८५॥ एभ्यः कर्मभ्यः पराद् हन्तेष्टक् स्यात् । ब्रह्मघ्नः, गोघ्नः पापी ॥८५॥ हस्ति - बाहु - कपाटाच्छक्तौ |५|१|८६ ॥ एभ्यः कर्मभ्यः पराद् हन्तेः शक्तौ गम्यायां 'टक्' स्यात् । हस्तिघ्नः, बाहुघ्नः, कपाटघ्नः । शक्ताविति किम् ? हस्तिघातो विषदः ॥८६॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy