________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
सङ्ख्या -ऽह - दिवा - विभा - निशा प्रभा-माश्चित्र-कर्त्रायन्ताऽनन्त - कार - बाह्ररु-र्धनु- र्नान्दी-लिपि-लिवि-बलि-भक्तिक्षेत्र - जङ्घा-क्षपा- क्षणदा - रजनि-दोषा-दिन-दिवसाट्टः
।५।१।१०२॥
१४
सङ्ख्येत्यर्थप्रधानमपि, एभ्यः कर्मभ्यः परात् कृगष्टः स्यात् । सङ्ख्याकरः, द्विकरः, अहस्करः, दिवाकरः, विभाकर, निशाकरः, प्रभाकरः, भास्करः, चित्रकरः कर्तृकरः, आदिकरः, अन्तकरः, अनन्तकरः, कारकर, बाहुकरः, अरुष्करः, धनुष्करः, नान्दीकर, लिपिकरः, लिविकर:, बरिकरः, भक्तिकरः, क्षेत्रकरः, जङ्घाकरः, क्षपाकरः, क्षणदाकरः, रजनिकरः, दोषाकर, दिनकरः, दिवसकरः ||१०२ ॥
?
हेतु तच्छीलाऽनुकूलेऽशब्द - लोक-कलह-गाथा - वैर चाटुसूत्र-मन्त्र - पदात् |५|१|१०३ ॥
एषु कर्तृषु शब्दादिवर्जात् कर्मणः परात् कृगष्टः स्यात् । यशस्करी विद्या, श्राद्धकरः, प्रेषणकरः । शब्दादिनिषेधः किम् ? शब्दकार इत्यादि ॥१०३॥ मृतौ कर्मणः | ५|१|१०४ ॥
कर्मशब्दात् कर्मणः परात् कृगो भृतौ गम्यायां 'ट' स्यात् । कर्मकरी दासी ॥ १०४ ॥
क्षेम- प्रिय-मद्र भद्रात् खाऽण् |५|१|१०५ ॥
एभ्यः कर्मभ्यः परात् कृगः 'खाऽणी' स्याताम् । क्षेमङ्करः, क्षेमकारः; प्रियङ्करः, प्रियकार:; मद्रङ्करः, मद्रकारः, भद्रकुर, भद्रकारः ||१०५ ॥ मेघर्त्ति भया - ऽभयात् खः ।५।१११०६ ॥
एभ्यः कर्मभ्यः परात् कृगः 'खः' स्यात् । मेघकुरः, ऋतिङ्करः, भयङ्करः,