________________
१७४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
शिलाया एयच १७/१११३॥ अस्मात् तस्य तुल्येऽर्थे 'एयच् एयञ् च' स्यात् । शिलेयम्, शैलेयं दधि ॥
शाखादेयः ७191११४॥ एभ्यस्तस्य तुल्ये 'यः' स्यात् । शाख्यः, मुख्यः ॥११४।।
द्रोभव्ये ७।१।११५॥ द्रोस्तस्य तुल्ये भव्येऽर्थे 'यः' स्यात् । द्रव्यमयं ना, स्वर्णादि च ॥११५।।
कुशाग्रादीयः ७।१।११६॥ अस्मात् तस्य तुल्ये 'ईयः' स्यात् । कुशाग्रीया बुद्धिः ॥११६॥
काकतालीयादयः ।७।१।११७॥ एते तस्य तुल्ये 'ईयान्ताः' साधवः स्युः । काकतालीयम्, खलतिबिल्वीयम् ।।
शर्करादेरण् ।७।१।११८॥ एभ्यस्तस्य तुल्ये-'ऽण्' स्यात् । शार्कर दधि, कापालिकम् ।।११८॥
अः सपल्याः ७१1११९॥ अस्मात् तस्य तुल्ये 'अः' स्यात् । सपलः ॥११९॥
एकशालाया इकः ।७।१११२०॥ अस्मात् तस्य तुल्ये 'इकः' स्यात् । एकशालिकम् ॥१२०॥
गोण्यादेशेकण् ।७।१।१२१॥ एभ्य एकशालायाश्च तस्य तुल्ये 'इकण्' स्यात् । गौणिकम्, आगुलिकम्, ऐकशालिकम् ॥१२१॥
कर्कलोहिताट्टीकण च ७।१।१२२॥ आभ्यां तस्य तुल्ये 'टीकण इकण् च' स्यात् । कार्कीकः, कार्किकः, लौहितीकः, लौहितिकः ॥१२२॥