________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१७३
नम् ७191१०५॥ एते 'ईनान्ता' निपात्याः, साप्तपदीन-'स्त्वीनअन्तः' । समांसमीना गौः, अद्यश्वीना गौः, अघप्रातीनो लाभः, आगवीनः कर्मकृत्, साप्तपदीनं सख्यम् ॥१०५।। __ अषडक्षा-ऽऽशितंग्वला -ऽलंपुरुषादीनः ।७।१।१०६॥ एभ्यः स्वार्थे 'ईनः' स्यात् । अषडक्षीणो मन्त्रः, आशितंगवीनमरण्यम्, अलङ्कर्मीणः, अलंपुरुषीणः ॥१०६॥
अदिकस्त्रियां वाचः ।७।१।१०७॥ अञ्चत्यन्तात् स्वार्थे 'ईनो वा' स्यात्, न चेत् स दिशि स्त्रियाम् । प्राचीनम्, प्राक्; प्राचीना शाखा, प्राची । अदिस्त्रियामिति किम् ? प्राची दिक् ।।
तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः ।७।१।१०८॥ तस्येति- षष्ठ्यन्तात् तुल्येऽर्थे 'कः' स्यात्, संज्ञायां प्रतिकृतौ च विषये । अश्वकः, अश्वकं रूपम् ।।१०८॥
न नृ-पूजाऽर्थे-ध्वज-चित्रे ७191१०९॥ नरि पूजार्थे ध्वजे चित्रकर्मणि चार्थे 'को न' स्यात् । चञ्चा ना, अर्हन्, ध्वजे सिंहः, चित्रे भीमः ॥१०९॥
अपण्ये जीवने ७१११११०॥ जीव्यते येन तस्मिन् पण्यवर्ने 'को न' स्यात् । शिवः । अपण्य इति किम् ? हस्तिकान् विक्रीणीते ॥११०॥
देव-पथादिभ्यः १७११११॥ एभ्यस्तुल्ये संज्ञा-प्रतिकृत्योः 'को न' स्यात् । देवपथः, हंसपथः ॥१११॥
बस्तरेयञ् ७११११२॥ बस्तेस्तस्य तुल्येऽर्थे 'एयञ्' स्यात् । बास्तेयी प्रणालिका ||११२।।